Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 95

Mokshadharma 95 (BORI 262, vulgate 268)

अध्यायः २६२

Shanti Parva Mokshadharma chapter 95 of 186.

45 verses

📖 Book View
  1. शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  2. शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् | कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  3. आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते | निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  4. धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  5. अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः | मनःसङ्कल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  6. अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः | ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  7. आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु | राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  8. समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चयाः | प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  9. पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः | चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  10. संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् | तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  11. सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः | न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  12. दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  13. यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  14. तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् | आगमाश्च यथाकालं सङ्कल्पाश्च यथाव्रतम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  15. सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  16. तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् | स्वकर्मभिः संवृतानां तपो घोरत्वमागतम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  17. तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् | अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  18. निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः | सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  19. धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः | तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  20. गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः | गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  21. धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः | आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  22. अत एवंविधा विप्राः पुराणा धर्मचारिणः | त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  23. नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः | आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  24. यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः | न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  25. एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् | कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  26. एवं पक्वकषायाणामानन्त्येन श्रुतेन च | सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  27. तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् | चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  28. स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः | सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  29. अपवर्गगतिर्नित्यो यतिधर्मः सनातनः | साधारणः केवलो वा यथाबलमुपास्यते

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  30. गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति | ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  31. स्यूमरश्मिरुवाच|| ये भुञ्जते ये ददते यजन्तेऽधीयते च ये | मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  32. एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः | एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  33. परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये | न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  34. स्यूमरश्मिरुवाच|| भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः | आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  35. एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते | तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  36. शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः | पक्वे कषाये वमनै रसज्ञाने न तिष्ठति

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  37. आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् | अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  38. पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् | तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  39. यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः | गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  40. वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति | एवं वेदविदित्याहुरतोऽन्यो वातरेटकः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  41. सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् | वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  42. एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च | एतदन्तं च मध्यं च सच्चासच्च विजानतः

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  43. समस्तत्याग इत्येव शम इत्येव निष्ठितः | सन्तोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम्

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  44. ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च | सर्वं सुखं यच्छिवमुत्तमं च; ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च

    Meaning

    {"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}

  45. तेजः क्षमा शान्तिरनामयं शुभं; तथाविधं व्योम सनातनं ध्रुवम् | एतैः शब्दैर्गम्यते बुद्धिनेत्रै; स्तस्मै नमो ब्रह्मणे ब्राह्मणाय