Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 62

Mokshadharma 62 (BORI 229, vulgate 235)

अध्यायः २२९

Shanti Parva Mokshadharma chapter 62 of 186.

25 verses

📖 Book View
  1. अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः | उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  2. किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम् | प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि

    Meaning

    {"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  3. यस्तु पश्येत्स्वभावेन विना भावमचेतनः | पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  4. येषां चैकान्तभावेन स्वभावः कारणं मतम् | पूत्वा तृणबुसीकां वै ते लभन्ते न किञ्चन

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  5. ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः | स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  6. स्वभावो हि विनाशाय मोहकर्ममनोभवः | निरुक्तमेतयोरेतत्स्वभावपरभावयोः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  7. कृष्यादीनि हि कर्माणि सस्यसंहरणानि च | प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  8. आक्रीडानां गृहाणां च गदानामगदस्य च | प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  9. प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति | राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  10. पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते | विद्यया तात सृष्टानां विद्यैव परमा गतिः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  11. भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् | जराय्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षयेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  12. स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत् | उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  13. आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च | बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  14. द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च | पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  15. पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च | मध्यमानि विशिष्टानि जातिधर्मोपधारणात्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  16. मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च | धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  17. धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च | वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  18. वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च | प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  19. विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः | सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  20. प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च | आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  21. धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद् | स त्यागी सत्यसङ्कल्पः स तु क्षान्तः स ईश्वरः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  22. धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः | शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  23. अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम् | जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  24. तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् | तेषां माहात्म्यभावस्य सदृशं नास्ति किञ्चन

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":229,"vulgateChapter":235}

  25. आदिं ते निधनं चैव कर्म चातीत्य सर्वशः | चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयम्भुवः