Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 91

Mokshadharma 91 (BORI 258, vulgate 264)

अध्यायः २५८

Shanti Parva Mokshadharma chapter 91 of 186.

75 verses

📖 Book View
  1. कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा | सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  2. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  3. चिरकारिक भद्रं ते भद्रं ते चिरकारिक | चिरकारी हि मेधावी नापराध्यति कर्मसु

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  4. चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः | चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  5. चिरं सञ्चिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन् | चिरकार्याभिसम्पत्तेश्चिरकारी तथोच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  6. अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते | बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  7. व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् | पित्रोक्तः कुपितेनाथ जहीमां जननीमिति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  8. स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः | विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  9. पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् | कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  10. पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् | अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  11. स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् | पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  12. अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् | युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  13. पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति | शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  14. सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः | विज्ञानं मे कथं न स्याद्बुबुधे चात्मसम्भवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  15. जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि | पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  16. गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः | पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  17. प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता | शरीरादीनि देयानि पिता त्वेकः प्रयच्छति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  18. तस्मात्पितुर्वचः कार्यं न विचार्यं कथञ्चन | पातकान्यपि पूयन्ते पितुर्वचनकारिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  19. भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने | भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  20. पिता स्वर्गः पिता धर्मः पिता परमकं तपः | पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  21. आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता | निष्कृतिः सर्वपापानां पिता यदभिनन्दति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  22. मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते | क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  23. एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् | पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  24. माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  25. न च शोचति नाप्येनं स्थाविर्यमपकर्षति | श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  26. पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः | अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  27. समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा | रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  28. तदा स वृद्धो भवति यदा भवति दुःखितः | तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  29. नास्ति मातृसमा छाया नास्ति मातृसमा गतिः | नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  30. कुक्षिसन्धारणाद्धात्री जननाज्जननी स्मृता | अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  31. शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् | चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  32. दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल | तं माता वा पिता वेद भूतार्थो मातरि स्थितः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  33. माता जानाति यद्गोत्रं माता जानाति यस्य सः | मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  34. पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च | यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  35. भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः | गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  36. एवं स्त्री नापराध्नोति नर एवापराध्यति | व्युच्चरंश्च महादोषं नर एवापराध्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  37. सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  38. यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये | तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  39. यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् | अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  40. देवतानां समावायमेकस्थं पितरं विदुः | मर्त्यानां देवतानां च स्नेहादभ्येति मातरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  41. एवं विमृशतस्तस्य चिरकारितया बहु | दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  42. मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः | विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  43. सोऽब्रवीद्दुःखसन्तप्तो भृशमश्रूणि वर्तयन् | श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  44. आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरंदरः | अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  45. समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः | अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  46. परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च | अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  47. एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः | अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  48. ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः | ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  49. हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् | भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  50. अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः | यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  51. चिरकारिक भद्रं ते भद्रं ते चिरकारिक | यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  52. त्राहि मां मातरं चैव तपो यच्चार्जितं मया | आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  53. सहजं चिरकारित्वं चिरप्राज्ञतया तव | सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  54. चिरमाशंसितो मात्रा चिरं गर्भेण धारितः | सफलं चिरकारित्वं कुरु त्वं चिरकारिक

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  55. चिरायते च सन्तापाच्चिरं स्वपिति वारितः | आवयोश्चिरसन्तापादवेक्ष्य चिरकारिक

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  56. एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा | चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  57. चिरकारी तु पितरं दृष्ट्वा परमदुःखितः | शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  58. गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि | पत्नीं चैव निराकारां परामभ्यगमन्मुदम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  59. न हि सा तेन सम्भेदं पत्नी नीता महात्मना | विजने चाश्रमस्थेन पुत्रश्चापि समाहितः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  60. हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते | विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  61. बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् | शस्त्रग्रहणचापल्यं संवृणोति भयादिति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  62. ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि | चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  63. एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः | अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  64. चिरकारिक भद्रं ते चिरकारी चिरं भव | चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  65. गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः | चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  66. चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् | चिरेण हि कृतं मित्रं चिरं धारणमर्हति

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  67. रागे दर्पे च माने च द्रोहे पापे च कर्मणि | अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  68. बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च | अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  69. एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत | कर्मणा तेन कौरव्य चिरकारितया तया

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  70. एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः | चिरेण निश्चयं कृत्वा चिरं न परितप्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  71. चिरं धारयते रोषं चिरं कर्म नियच्छति | पश्चात्तापकरं कर्म न किञ्चिदुपपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  72. चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत् | चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  73. चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च | चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  74. ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् | चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते

    Meaning

    {"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":258,"vulgateChapter":264}

  75. उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः | समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा