Mokshadharma Parva · Chapter 26
Mokshadharma 26 (BORI 193, vulgate 199)
अध्यायः १९३
Shanti Parva Mokshadharma chapter 26 of 186.
32 verses
किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते | ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया | संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः
Meaning
{"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
तथेत्येवं प्रतिश्रुत्य धर्मं सम्पूज्य चाभिभो | यमं कालं च मृत्युं च स्वर्गं सम्पूज्य चार्हतः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः | सर्वान्सम्पूज्य शिरसा राजानं सोऽब्रवीद्वचः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् | भवता चाभ्यनुज्ञातो जपेयं भूय एव हि
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
वरश्च मम पूर्वं हि देव्या दत्तो महाबल | श्रद्धा ते जपतो नित्यं भवितेति विशां पते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
राजोवाच|| यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव | गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह | सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः
Meaning
{"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः | सह देवैरुपययौ लोकपालैस्तथैव च
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च | नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती | नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
ननृतुश्चाप्सरःसङ्घास्तत्र तत्र समन्ततः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् | संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
अथ तौ सहितौ राजन्नन्योन्येन विधानतः | विषयप्रतिसंहारमुभावेव प्रचक्रतुः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
प्राणापानौ तथोदानं समानं व्यानमेव च | एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ | कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ | जितासनौ तथाधाय मूर्धन्यात्मानमेव च
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः | ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत् | तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
ततः स्वागतमित्याह तत्तेजः स पितामहः | प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
भूयश्चैवापरं प्राह वचनं मधुरं स्म सः | जापकैस्तुल्यफलता योगानां नात्र संशयः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम् | जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः | अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
राजाप्येतेन विधिना भगवन्तं पितामहम् | यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
स्वयम्भुवमथो देवा अभिवाद्य ततोऽब्रुवन् | जापकार्थमयं यत्नस्तदर्थं वयमागताः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
सर्वाँल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
ब्रह्मोवाच|| महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् | तावप्येतेन विधिना गच्छेतां मत्सलोकताम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
गम्यतां साधयिष्यामि यथास्थानानि सिद्धये
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत | आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै | पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":193,"vulgateChapter":199}
एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता | यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि