Mokshadharma Parva · Chapter 178
Mokshadharma 178 (BORI 345, vulgate 351)
अध्यायः ३४५
Shanti Parva Mokshadharma chapter 178 of 186.
13 verses
स वनानि विचित्राणि तीर्थानि च सरांसि च | अभिगच्छन्क्रमेण स्म कञ्चिन्मुनिमुपस्थितः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः | पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
सोऽभिगम्य यथाख्यातं नागायतनमर्थवित् | प्रोक्तवानहमस्मीति भोःशब्दालङ्कृतं वचः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
ततस्तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला | दर्शयामास तं विप्रं नागपत्नी पतिव्रता
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा | स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा | द्रष्टुमिच्छामि भवति तं देवं नागमुत्तमम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
एतद्धि परमं कार्यमेतन्मे फलमीप्सितम् | अनेनार्थेन चास्म्यद्य सम्प्राप्तः पन्नगालयम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
नागभार्योवाच|| आर्य सूर्यरथं वोढुं गतोऽसौ मासचारिकः | सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
एतद्विदितमार्यस्य विवासकरणं मम | भर्तुर्भवतु किं चान्यत्क्रियतां तद्वदस्व मे
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह | प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः | ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे | कालं परिमिताहारो यथोक्तं परिपालयन्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":345,"vulgateChapter":351}
ततः स विप्रस्तां नागीं समाधाय पुनः पुनः | तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः