Mokshadharma Parva · Chapter 12
Mokshadharma 12 (BORI 179, vulgate 185)
अध्यायः १७९
Shanti Parva Mokshadharma chapter 12 of 186.
15 verses
यदि प्राणायते वायुर्वायुरेव विचेष्टते | श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि | अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते | वायुरेव जहात्येनमूष्मभावश्च नश्यति
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
यदि वातोपमो जीवः संश्लेषो यदि वायुना | वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति | महार्णवविमुक्तत्वादन्यत्सलिलभाजनम्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने | प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः | येषामन्यतरत्यागाच्चतुर्णां नास्ति सङ्ग्रहः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् | नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते | पीडितेऽन्यतरे ह्येषां सङ्घातो याति पञ्चधा
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति | किं वेदयति वा जीवः किं शृणोति ब्रवीति वा
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
एषा गौः परलोकस्थं तारयिष्यति मामिति | यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
गौश्च प्रतिग्रहीता च दाता चैव समं यदा | इहैव विलयं यान्ति कुतस्तेषां समागमः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा | अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति | बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":179,"vulgateChapter":185}
बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते | मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते