Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 42

Mokshadharma 42 (BORI 209, vulgate 215)

अध्यायः २०९

Shanti Parva Mokshadharma chapter 42 of 186.

20 verses

📖 Book View
  1. गुरुरुवाच|| निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा | निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  2. स्वप्ने हि रजसा देही तमसा चाभिभूयते | देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  3. ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम् | विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  4. अत्राह को न्वयं भावः स्वप्ने विषयवानिव | प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  5. अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः | तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  6. इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः | मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  7. कार्यव्यासक्तमनसः सङ्कल्पो जाग्रतो ह्यपि | यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  8. संसाराणामसङ्ख्यानां कामात्मा तदवाप्नुयात् | मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  9. गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम् | तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  10. ततस्तमुपवर्तन्ते गुणा राजसतामसाः | सात्त्विको वा यथायोगमानन्तर्यफलोदयः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  11. ततः पश्यत्यसम्बद्धान्वातपित्तकफोत्तरान् | रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  12. प्रसन्नैरिन्द्रियैर्यद्यत्सङ्कल्पयति मानसम् | तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  13. व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः | मनस्यन्तर्हितं द्वारं देहमास्थाय मानसम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  14. यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् | सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  15. लिप्सेत मनसा यश्च सङ्कल्पादैश्वरं गुणम् | आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  16. एवं हि तपसा युक्तमर्कवत्तमसः परम् | त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  17. तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः | एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  18. सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः | सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  19. ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम् | ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":209,"vulgateChapter":215}

  20. हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा | प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम्