Mokshadharma Parva · Chapter 106
Mokshadharma 106 (BORI 273, vulgate 279)
अध्यायः २७३
Shanti Parva Mokshadharma chapter 106 of 186.
63 verses
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः | अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः | वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततस्तं रथमास्थाय देवाप्यायितमाहवे | वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
स वज्रः सुमहातेजाः कालाग्निसदृशोपमः | क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततो नादः समभवत्पुनरेव समन्ततः | वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः | वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता | ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
करालदशना भीमा विकृता कृष्णपिङ्गला | प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
कपालमालिनी चैव कृशा च भरतर्षभ | रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा | वज्रिणं मृगयामास तदा भरतसत्तम
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन | स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् | कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये | नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया | तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
तस्या व्यपोहने शक्रः परं यत्नं चकार ह | न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
गृहीत एव तु तया देवेन्द्रो भरतर्षभ | पितामहमुपागम्य शिरसा प्रत्यपूजयत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया | ब्रह्मा सञ्चिन्तयामास तदा भरतसत्तम
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
तामुवाच महाबाहो ब्रह्महत्यां पितामहः | स्वरेण मधुरेणाथ सान्त्वयन्निव भारत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि | ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्महत्योवाच|| त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि | कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना | स्थापना वै सुमहती त्वया देव प्रवर्तिता
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो | शक्रादपगमिष्यामि निवासं तु विधत्स्व मे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
तथेति तां प्राह तदा ब्रह्महत्यां पितामहः | उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना | ब्रह्माणमुपसङ्गम्य ततो वचनमब्रवीत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम | यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्मोवाच|| बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम् | शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
अग्निरुवाच|| मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो | एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्मोवाच|| यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् | बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति | ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् | पितामहस्य भगवांस्तथा च तदभूत्प्रभो
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततो वृक्षौषधितृणं समाहूय पितामहः | इममर्थं महाराज वक्तुं समुपचक्रमे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् | व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
अस्माकं ब्रह्महत्यातो कोऽन्तो लोकपितामह | स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
वयमग्निं तथा शीतं वर्षं च पवनेरितम् | सहामः सततं देव तथा छेदनभेदनम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम् | ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्मोवाच|| पर्वकाले तु सम्प्राप्ते यो वै छेदनभेदनम् | करिष्यति नरो मोहात्तमेषानुगमिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततो वृक्षौषधितृणमेवमुक्तं महात्मना | ब्रह्माणमभिसम्पूज्य जगामाशु यथागतम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
आहूयाप्सरसो देवस्ततो लोकपितामहः | वाचा मधुरया प्राह सान्त्वयन्निव भारत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
इयमिन्द्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः | चतुर्थमस्या भागं हि मयोक्ताः सम्प्रतीच्छत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
अप्सरस ऊचुः|| ग्रहणे कृतबुद्धीनां देवेश तव शासनात् | मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्मोवाच|| रजस्वलासु नारीषु यो वै मैथुनमाचरेत् | तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः | स्वानि स्थानानि सम्प्राप्य रेमिरे भरतर्षभ
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततस्त्रिलोककृद्देवः पुनरेव महातपाः | अपः सञ्चिन्तयामास ध्यातास्ताश्चाप्यथागमन्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् | इदमूचुर्वचो राजन्प्रणिपत्य पितामहम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
इमाः स्म देव सम्प्राप्तास्त्वत्सकाशमरिंदम | शासनात्तव देवेश समाज्ञापय नो विभो
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्मोवाच|| इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया | ब्रह्महत्या चतुर्थांशमस्या यूयं प्रतीच्छत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
आप ऊचुः|| एवं भवतु लोकेश यथा वदसि नः प्रभो | मोक्षं समयतोऽस्माकं सञ्चिन्तयितुमर्हसि
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
त्वं हि देवेश सर्वस्य जगतः परमो गुरुः | कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ब्रह्मोवाच|| अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः | श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति | तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर | यथानिसृष्टं तं देशमगच्छद्देवशासनात्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
एवं शक्रेण सम्प्राप्ता ब्रह्महत्या जनाधिप | पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
श्रूयते हि महाराज सम्प्राप्ता वासवेन वै | ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः | प्रहर्षमतुलं लेभे वासवः पृथिवीपते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे | द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु | इमे हि भूतले देवाः प्रथिताः कुरुनन्दन
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः | उपायपूर्वं निहतो वृत्रोऽथामिततेजसा
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
एवं त्वमपि कौरव्य पृथिव्यामपराजितः | भविष्यसि यथा देवः शतक्रतुरमित्रहा
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु | विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":273,"vulgateChapter":279}
इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् | कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि