Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 131

Mokshadharma 131 (BORI 298, vulgate 304)

अध्यायः २९८

Shanti Parva Mokshadharma chapter 131 of 186.

26 verses

📖 Book View
  1. धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् | जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  2. यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् | शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति

    Meaning

    {"speaker":"Yudhishthira","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  3. अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् | याज्ञवल्क्यस्य संवादं जनकस्य च भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  4. याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः | पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  5. कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः | किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम्

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  6. प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च | वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  7. अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः | तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  8. श्रूयतामवनीपाल यदेतदनुपृच्छसि | योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  9. न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान् | पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  10. अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश | अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  11. अव्यक्तं च महांश्चैव तथाहङ्कार एव च | पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  12. एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु | श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  13. शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च | वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  14. एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु | बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  15. मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः | त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  16. अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव | प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  17. महतश्चाप्यहङ्कार उत्पद्यति नराधिप | द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  18. अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् | तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  19. मनसस्तु समुद्भूता महाभूता नराधिप | चतुर्थं सर्गमित्येतन्मानसं परिचक्षते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  20. शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च | पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  21. श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् | सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  22. अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप | सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  23. ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप | अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  24. तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप | नवमं सर्गमित्याहुरेतदार्जवकं बुधाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  25. एतानि नव सर्गाणि तत्त्वानि च नराधिप | चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":298,"vulgateChapter":304}

  26. अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः | महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे