Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 167

Mokshadharma 167 (BORI 334, vulgate 340)

अध्यायः ३३४

Shanti Parva Mokshadharma chapter 167 of 186.

17 verses

📖 Book View
  1. श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् | अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  2. हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  3. तावपि ख्याततपसौ नरनारायणावृषी | तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  4. त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः | पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  5. नैव तस्य परो लोको नायं पार्थिवसत्तम | कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  6. मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः | यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  7. कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् | आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  8. तस्माच्छ्रुतं मया चेदं कथितं च तवानघ

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  9. धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  10. वर्ततां ते महायज्ञो यथा सङ्कल्पितस्त्वया | सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  11. एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः | ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  12. ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  13. स हि परमगुरुर्भुवनपति; र्धरणिधरः शमनियमनिधिः | श्रुतिविनयनिधिर्द्विजपरमहित; स्तव भवतु गतिर्हरिरमरहितः

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  14. तपसां निधिः सुमहतां महतो; यशसश्च भाजनमरिष्टकहा | एकान्तिनां शरणदोऽभयदो; गतिदोऽस्तु वः स मखभागहरः

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  15. त्रिगुणातिगश्चतुष्पञ्चधरः; पूर्तेष्टयोश्च फलभागहरः | विदधाति नित्यमजितोऽतिबलो; गतिमात्मगां सुकृतिनामृषिणाम्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  16. तं लोकसाक्षिणमजं पुरुषं; रविवर्णमीश्वरगतिं बहुशः | प्रणमध्वमेकमतयो यतयः; सलिलोद्भवोऽपि तमृषिं प्रणतः

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":334,"vulgateChapter":340}

  17. स हि लोकयोनिरमृतस्य पदं; सूक्ष्मं पुराणमचलं परमम् | तत्साङ्ख्ययोगिभिरुदारधृतं; बुद्ध्या यतात्मभिर्विदितं सततम्