Mokshadharma Parva · Chapter 27
Mokshadharma 27 (BORI 194, vulgate 200)
अध्यायः १९४
Shanti Parva Mokshadharma chapter 27 of 186.
24 verses
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च | भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसङ्घप्रवरो महर्षिः | बृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः | यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
यदर्थशास्त्रागममन्त्रविद्भि; र्यज्ञैरनेकैर्वरगोप्रदानैः | फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च | दिवौकसश्चैव यतः प्रसूता; स्तदुच्यतां मे भगवन्पुराणम्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
ज्ञानं यतः प्रार्थयते नरो वै; ततस्तदर्था भवति प्रवृत्तिः | न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
ऋक्सामसङ्घांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम् | अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
स मे भवाञ्शंसतु सर्वमेत; ज्ज्ञाने फलं कर्मणि वा यदस्ति | यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
इष्टं त्वनिष्टं च न मां भजेते; त्येतत्कृते ज्ञानविधिः प्रवृत्तः
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
परं हि तत्कर्मपथादपेतं; निराशिषं ब्रह्मपरं ह्यवश्यम्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ | दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा | ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति | अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च | अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
गुणात्मकं कर्म वदन्ति वेदा; स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म | विधिर्विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
शब्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव | नरो नसंस्थानगतः प्रभुः स्या; देतत्फलं सिध्यति कर्मलोके
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
यद्यच्छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत् | शरीरमेवायतनं सुखस्य; दुःखस्य चाप्यायतनं शरीरम्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
वाचा तु यत्कर्म करोति किं चि; द्वाचैव सर्वं समुपाश्नुते तत् | मनस्तु यत्कर्म करोति किं चि; न्मनःस्थ एवायमुपाश्नुते तत्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः | तथा तथायं गुणसम्प्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म | शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत् | यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
रसैर्वियुक्तं विविधैश्च गन्धै; रशब्दमस्पर्शमरूपवच्च | अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम्
Meaning
{"speaker":"Bhishma","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":194,"vulgateChapter":200}
न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न | पश्यन्ति यद्ब्रह्मविदो मनुष्या; स्तदक्षरं न क्षरतीति विद्धि