Mokshadharma Parva · Chapter 113
Mokshadharma 113 (BORI 280, vulgate 286)
अध्यायः २८०
Shanti Parva Mokshadharma chapter 113 of 186.
23 verses
मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः | रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते | द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते | उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति | न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा | दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् | न तत्सेवेत मेधावी शुचिः कुसलिलं यथा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
किङ्कष्टमनुपश्यामि फलं पापस्य कर्मणः | प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते | तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् | प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति | प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति | ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
तथा कामकृतं चास्य विहिंसैवापकर्षति | इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् | गुणयुक्तं प्रकाशं च पापेनानुपसंहितम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् | बुद्धियुक्तानि तानीह कृतानि मनसा सह
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् | अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा | नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः | करोति यः शुभं कर्म स वै भद्राणि पश्यति
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
नवे कपाले सलिलं संन्यस्तं हीयते यथा | नवेतरे तथाभावं प्राप्नोति सुखभावितम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते | वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते | नसमानीह हीनानि तानि पुण्यतमान्यपि
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम् | अग्निश्चेयो बहुभिश्चापि यज्ञै; रन्ते मध्ये वा वनमाश्रित्य स्थेयम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":280,"vulgateChapter":286}
दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत् | गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र