Mokshadharma Parva · Chapter 179
Mokshadharma 179 (BORI 346, vulgate 352)
अध्यायः ३४६
Shanti Parva Mokshadharma chapter 179 of 186.
13 verses
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना | निराहारेण वसता दुःखितास्ते भुजङ्गमाः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
सर्वे सम्भूय सहितास्तस्य नागस्य बान्धवाः | भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् | समासीनं निराहारं द्विजं जप्यपरायणम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् | ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन | न चाभिलषसे किञ्चिदाहारं धर्मवत्सल
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः | कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम | आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
त्यक्ताहारेण भवता वने निवसता सता | बालवृद्धमिदं सर्वं पीड्यते धर्मसङ्कटात्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा | पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
उपदेशेन युष्माकमाहारोऽयं मया वृतः | द्विरूनं दशरात्रं वै नागस्यागमनं प्रति
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः | तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
कर्तव्यो न च सन्तापो गम्यतां च यथागतम् | तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":346,"vulgateChapter":352}
तेन ते समनुज्ञाता ब्राह्मणेन भुजङ्गमाः | स्वमेव भवनं जग्मुरकृतार्था नरर्षभ