Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 161

Mokshadharma 161 (BORI 328, vulgate 334)

अध्यायः ३२८

Shanti Parva Mokshadharma chapter 161 of 186.

53 verses

📖 Book View
  1. अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् | नामभिर्विविधैरेषां निरुक्तं भगवन्मम

    Meaning

    {"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  2. वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः | श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः

    Meaning

    {"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  3. शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः | प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  4. नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः | पृष्टवान्केशवं राजन्फल्गुनः परवीरहा

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  5. भगवन्भूतभव्येश सर्वभूतसृगव्यय | लोकधाम जगन्नाथ लोकानामभयप्रद

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  6. यानि नामानि ते देव कीर्तितानि महर्षिभिः | वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  7. तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव | न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  8. श्रीभगवानुवाच|| ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु | पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  9. साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च | बहूनि मम नामानि कीर्तितानि महर्षिभिः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  10. कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  11. नमोऽतियशसे तस्मै देहिनां परमात्मने | नारायणाय विश्वाय निर्गुणाय गुणात्मने

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  12. यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः | योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  13. ऋता सत्यामराजय्या लोकानामात्मसञ्ज्ञिता

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  14. अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  15. तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  16. अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा | क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  17. निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  18. कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः | उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  19. दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा | नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  20. तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे | सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  21. अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन | तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  22. मया प्रमाणं हि कृतं लोकः समनुवर्तते

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  23. प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् | यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  24. रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् | लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  25. पुत्रार्थमाराधितवानात्मानमहमात्मना

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  26. न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु | ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  27. सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः | अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  28. भविष्यतां वर्ततां च भूतानां चैव भारत | सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  29. नमस्व हव्यदं विष्णुं तथा शरणदं नम | वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  30. अहमेव गतिस्तेषां निराशीःकर्मकारिणाम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  31. ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः | सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  32. भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  33. त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ | भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  34. जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत | निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  35. अयनं मम तत्पूर्वमतो नारायणो ह्यहम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  36. छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः | सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  37. गतिश्च सर्वभूतानां प्रजानां चापि भारत | व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  38. अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत | क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  39. दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि | दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  40. पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा | ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  41. ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् | पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  42. ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः | उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  43. सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  44. बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  45. ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा | उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  46. पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् | एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  47. मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः | तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  48. स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् | स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  49. वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् | प्रयोजयामास तदा नाम गुह्यमिदं मम

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  50. आनुपूर्व्येण विधिना केशवेति पुनः पुनः | स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  51. एवं हि वरदं नाम केशवेति ममार्जुन | देवानामथ सर्वेषामृषीणां च महात्मनाम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  52. अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् | अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम्

    Meaning

    {"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":328,"vulgateChapter":334}

  53. अपि हि पुराणे भवति एकयोन्यात्मकावग्नीषोमौ देवाश्चाग्निमुखा इति एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति