Mokshadharma Parva · Chapter 51
Mokshadharma 51 (BORI 218, vulgate 224)
अध्यायः २१८
Shanti Parva Mokshadharma chapter 51 of 186.
38 verses
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः | स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः | विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
बले केयमपक्रान्ता रोचमाना शिखण्डिनी | त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
बलिरुवाच|| न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् | त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी | अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा | हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| न मा विरोचनो वेद न मा वैरोचनो बलिः | आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव | त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
किमिदं त्वं मम कृते उताहो बलिनः कृते | दुःसहे विजहास्येनं चिरसंवासिनी सती
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| न धाता न विधाता मां विदधाति कथञ्चन | कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि | कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि | पराक्रमे च धर्मे च पराचीनस्ततो बलिः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः | अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम्
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् | प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
अपाकृता ततः शक्र त्वयि वत्स्यामि वासव | अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् | यस्त्वामेको विषहितुं शक्नुयात्कमलालये
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| नैव देवो न गन्धर्वो नासुरो न च राक्षसः | यो मामेको विषहितुं शक्तः कश्चित्पुरंदर
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे | तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् | विधिना वेददृष्टेन चतुर्धा विभजस्व माम्
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् | न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
भूमिरेव मनुष्येषु धारणी भूतभाविनी | सा ते पादं तितिक्षेत समर्था हीति मे मतिः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः | द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः | तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः | तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः | तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः | चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः | ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम्
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
श्रीरुवाच|| एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः | एवं विनिहितां शक्र भूतेषु परिधत्स्व माम्
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
भूतानामिह वै यस्त्वा मया विनिहितां सतीम् | उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् | यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
सर्वाँल्लोकान्यदादित्य एकस्थस्तापयिष्यति | तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति | तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर | आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
स्थापितो ह्यस्य समयः पूर्वमेव स्वयम्भुवा | अजस्रं परियात्येष सत्येनावतपन्प्रजाः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा | येन संयाति लोकेषु शीतोष्णे विसृजन्रविः
Meaning
{"speaker":"शक्र","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत | जगाम दक्षिणामाशामुदीचीं तु पुरंदरः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":218,"vulgateChapter":224}
इत्येतद्बलिना गीतमनहङ्कारसञ्ज्ञितम् | वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा