Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 25

Mokshadharma 25 (BORI 192, vulgate 198)

अध्यायः १९२

Shanti Parva Mokshadharma chapter 25 of 186.

127 verses

📖 Book View
  1. कालमृत्युयमानां च ब्राह्मणस्य च सत्तम | विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति

    Meaning

    {"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  2. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  3. कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे | यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  4. ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः | षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  5. तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च | वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  6. सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् | तस्य वर्षसहस्रं तु नियमेन तथा गतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  7. स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल | जप्यमावर्तयंस्तूष्णीं न च तां किञ्चिदब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  8. तस्यानुकम्पया देवी प्रीता समभवत्तदा | वेदमाता ततस्तस्य तज्जप्यं समपूजयत्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  9. समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा | पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  10. दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम | यदि वापि प्रसन्नासि जप्ये मे रमतां मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  11. सावित्र्युवाच|| किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते | प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  12. इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् | जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  13. मनसश्च समाधिर्मे वर्धेताहरहः शुभे | तत्तथेति ततो देवी मधुरं प्रत्यभाषत

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  14. इदं चैवापरं प्राह देवी तत्प्रियकाम्यया | निरयं नैव यातासि यत्र याता द्विजर्षभाः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  15. यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम् | साधये भविता चैतद्यत्त्वयाहमिहार्थिता

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  16. भविता च विवादोऽत्र तव तेषां च धर्मतः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  17. एवमुक्त्वा भगवती जगाम भवनं स्वकम् | ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  18. समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः | साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  19. द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः | जप्यस्य च फलं यत्ते सम्प्राप्तं तच्च मे शृणु

    Meaning

    {"speaker":"धर्म","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  20. जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः | देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि

    Meaning

    {"speaker":"धर्म","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  21. प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् | त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि

    Meaning

    {"speaker":"धर्म","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  22. कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम् | बहुदुःखसुखं देहं नोत्सृजेयमहं विभो

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  23. अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव | स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ

    Meaning

    {"speaker":"धर्म","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  24. न रोचये स्वर्गवासं विना देहादहं विभो | गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  25. अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव | गच्छ लोकानरजसो यत्र गत्वा न शोचसि

    Meaning

    {"speaker":"धर्म","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  26. रमे जपन्महाभाग कृतं लोकैः सनातनैः | सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  27. यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज | एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः

    Meaning

    {"speaker":"धर्म","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  28. अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो | ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  29. तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च | फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  30. यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् | कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  31. मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम् | कालेन चोदितं विप्र त्वामितो नेतुमद्य वै

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  32. स्वागतं सूर्यपुत्राय कालाय च महात्मने | मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  33. अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे | अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  34. तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः | इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  35. सर्वानेव तु राजर्षिः सम्पूज्याभिप्रणम्य च | कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  36. तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च | अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  37. स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि | स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  38. राजोवाच|| राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः | ददामि वसु किञ्चित्ते प्रार्थितं तद्वदस्व मे

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  39. द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः | प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  40. ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  41. राजोवाच|| क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् | प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  42. तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप | अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  43. राजोवाच|| स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् | याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  44. युद्धं मम सदा वाणी याचतीति विकत्थसे | न च युद्धं मया सार्धं किमर्थं याचसे पुनः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  45. राजोवाच|| वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः | वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  46. सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् | ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  47. राजोवाच|| यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया | फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  48. परमं गृह्यतां तस्य फलं यज्जपितं मया | अर्धं त्वमविचारेण फलं तस्य समाप्नुहि

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  49. अथ वा सर्वमेवेह जप्यकं मामकं फलम् | राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  50. राजोवाच|| कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया | स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  51. फलप्राप्तिं न जानामि दत्तं यज्जपितं मया | अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  52. राजोवाच|| अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति | प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  53. नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया | वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  54. नाभिसन्धिर्मया जप्ये कृतपूर्वः कथञ्चन | जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  55. ददस्वेति त्वया चोक्तं ददामीति तथा मया | न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  56. अथैवं वदतो मेऽद्य वचनं न करिष्यसि | महानधर्मो भविता तव राजन्मृषाकृतः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  57. न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम | तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  58. संश्रुतं च मया पूर्वं ददानीत्यविचारितम् | तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  59. इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः | तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  60. नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् | कुत एवावरान्राजन्मृषावादपरायणः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  61. न यज्ञाध्ययने दानं नियमास्तारयन्ति हि | तथा सत्यं परे लोके यथा वै पुरुषर्षभ

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  62. तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः | समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  63. सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः | सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  64. सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् | सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  65. सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः | व्रतचर्यास्तथा सत्यमोङ्कारः सत्यमेव च

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  66. प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च | सत्येन वायुरभ्येति सत्येन तपते रविः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  67. सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः | सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  68. तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् | समां कक्षां धारयतो यतः सत्यं ततोऽधिकम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  69. यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते | किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  70. सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः | कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  71. यदि जप्यफलं दत्तं मया नेषिष्यसे नृप | स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  72. संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति | उभावानृतिकावेतौ न मृषा कर्तुमर्हसि

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  73. राजोवाच|| योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज | दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  74. न छन्दयामि ते राजन्नापि ते गृहमाव्रजम् | इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  75. अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् | द्विजो दानफलैर्युक्तो राजा सत्यफलेन च

    Meaning

    {"speaker":"धर्म","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  76. स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् | अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम्

    Meaning

    {"speaker":"स्वर्ग","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  77. राजोवाच|| कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् | विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम्

    Meaning

    {"speaker":"स्वर्ग","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  78. बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः | निवृत्तिलक्षणं धर्ममुपासे संहितां जपन्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  79. तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  80. राजोवाच|| यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् | आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  81. द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः | यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  82. मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि | प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  83. ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ | गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  84. न मे धारयसीत्येको धारयामीति चापरः | इहास्ति नौ विवादोऽयमयं राजानुशासकः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  85. सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् | अनृतं वदसीह त्वमृणं ते धारयाम्यहम्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  86. तावुभौ भृशसन्तप्तौ राजानमिदमूचतुः | परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  87. धारयामि नरव्याघ्र विकृतस्येह गोः फलम् | ददतश्च न गृह्णाति विकृतो मे महीपते

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  88. न मे धारयते किञ्चिद्विरूपोऽयं नराधिप | मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप

    Meaning

    {"speaker":"विकृत","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  89. राजोवाच|| विरूप किं धारयते भवानस्य वदस्व मे | श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः

    Meaning

    {"speaker":"विकृत","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  90. शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् | विकृतस्यास्य राजर्षे निखिलेन नरर्षभ

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  91. अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ | धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  92. तस्याश्चायं मया राजन्फलमभ्येत्य याचितः | विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  93. ततो मे सुकृतं कर्म कृतमात्मविशुद्धये | गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  94. ते चोञ्छवृत्तये राजन्मया समपवर्जिते | यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  95. इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम् | एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान्

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  96. एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप | कुरु धर्ममधर्मं वा विनये नौ समाधय

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  97. यदि नेच्छति मे दानं यथा दत्तमनेन वै | भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  98. राजोवाच|| दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै | यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम्

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  99. दीयतामित्यनेनोक्तं ददानीति तथा मया | नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति

    Meaning

    {"speaker":"विकृत","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  100. राजोवाच|| ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे | दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः

    Meaning

    {"speaker":"विकृत","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  101. मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः | काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो

    Meaning

    {"speaker":"विकृत","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  102. दीयमानं यदि मया नेषिष्यसि कथञ्चन | नियंस्यति त्वा नृपतिरयं धर्मानुशासकः

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  103. स्वं मया याचितेनेह दत्तं कथमिहाद्य तत् | गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते

    Meaning

    {"speaker":"विकृत","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  104. श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः | प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  105. राजोवाच|| प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा | जापकस्य दृढीकारः कथमेतद्भविष्यति

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  106. यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् | कथं न लिप्येयमहं दोषेण महताद्य वै

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  107. तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः | नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  108. स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः | विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  109. गृहाण धारयेऽहं ते याचितं ते श्रुतं मया | न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  110. राजोवाच|| धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः | इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  111. एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः | यन्मे धारयसे विप्र तदिदानीं प्रदीयताम्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  112. संहितां जपता यावान्मया कश्चिद्गुणः कृतः | तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  113. राजोवाच|| जलमेतन्निपतितं मम पाणौ द्विजोत्तम | सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्

    Meaning

    {"speaker":"Brahmana","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  114. कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् | समेति च यदुक्तं ते समा लोकास्तवास्य च

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  115. नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता | कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम्

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  116. सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव | गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि

    Meaning

    {"speaker":"विरूप","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  117. जापकानां फलावाप्तिर्मया ते सम्प्रकीर्तिता | गतिः स्थानं च लोकाश्च जापकेन यथा जिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  118. प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् | अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  119. स तैजसेन भावेन यदि तत्राश्नुते रतिम् | गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  120. एवं सोमे तथा वायौ भूम्याकाशशरीरगः | सरागस्तत्र वसति गुणांस्तेषां समाचरन्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  121. अथ तत्र विरागी स गच्छति त्वथ संशयम् | परमव्ययमिच्छन्स तमेवाविशते पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  122. अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् | ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  123. ब्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम् | अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  124. चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः | पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  125. अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति | यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  126. अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान् | निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":192,"vulgateChapter":198}

  127. एवमेषा महाराज जापकस्य गतिर्यथा | एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि