Mokshadharma Parva · Chapter 135
Mokshadharma 135 (BORI 302, vulgate 308)
अध्यायः ३०२
Shanti Parva Mokshadharma chapter 135 of 186.
18 verses
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम | कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
शतधा सहस्रधा चैव तथा शतसहस्रधा | कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् | तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् | पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
द्वंद्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः | सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा | तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् | रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते | रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् | शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् | अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप | स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव | एतेनाधिष्ठितश्चैव सृजते संहरत्यपि
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
अनादिनिधनावेतावुभावेव महामुने | अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ
Meaning
{"speaker":"Janaka","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः | चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः
Meaning
{"speaker":"Janaka","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे | साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः
Meaning
{"speaker":"Janaka","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
अस्तित्वं केवलत्वं च विनाभावं तथैव च | तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः
Meaning
{"speaker":"Janaka","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज | साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च
Meaning
{"speaker":"Janaka","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":302,"vulgateChapter":308}
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम | विदितं सर्वमेतत्ते पाणावामलकं यथा