Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 172

Mokshadharma 172 (BORI 339, vulgate 345)

अध्यायः ३३९

Shanti Parva Mokshadharma chapter 172 of 186.

21 verses

📖 Book View
  1. ब्रह्मोवाच|| शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः | अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  2. न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम | सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  3. अशरीरः शरीरेषु सर्वेषु निवसत्यसौ | वसन्नपि शरीरेषु न स लिप्यति कर्मभिः

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  4. ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः | सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  5. विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः | एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  6. क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे | तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  7. नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् | साङ्ख्येन विधिना चैव योगेन च यथाक्रमम्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  8. चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् | यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  9. तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः | महापुरुषशब्दं स बिभर्त्येकः सनातनः

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  10. पुरुषश्चैको निर्गुणो विश्वरूप; स्तं निर्गुणं पुरुषं चाविशन्ति

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  11. हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् | उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  12. अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् | विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  13. एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः | एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  14. न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  15. एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  16. यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ | मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  17. द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च | यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  18. यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् | यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम्

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  19. मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  20. चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति | एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः

    Meaning

    {"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}

  21. एतत्ते कथितं पुत्र यथावदनुपृच्छतः | साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम्