Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 147

Mokshadharma 147 (BORI 314, vulgate 320)

अध्यायः ३१४

Shanti Parva Mokshadharma chapter 147 of 186.

49 verses

📖 Book View
  1. एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः | आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  2. कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः | शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  3. एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा | हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  4. तमप्सरोगणाकीर्णं गीतस्वननिनादितम् | किंनराणां समूहैश्च भृङ्गराजैस्तथैव च

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  5. राजहंससमूहैश्च हृष्टैः परभृतैस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  6. यत्र नित्यं समायान्ति लोकस्य हितकाम्यया

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  7. विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना | यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  8. शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै | यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  9. योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः | यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  10. सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति | तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  11. किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  12. कम्पयामास सव्येन पाणिना पुरुषोत्तमः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  13. शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा | मेदिनी कम्पिता सर्वा सशैलवनकानना

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  14. शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता | रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  15. तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत् | पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  16. सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः | जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  17. नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि | विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  18. यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः | तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  19. पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः | आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  20. न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः | दशयोजनविस्तारमग्निज्वालासमावृतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  21. भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् | सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  22. दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः | देवान्सन्तापयंस्तत्र महादेवो धृतव्रतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  23. वेदानध्यापयामास व्यासः शिष्यान्महातपाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  24. सुमन्तुं च महाभागं वैशम्पायनमेव च | जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  25. आरणेयो विशुद्धात्मा नभसीव दिवाकरः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  26. अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् | ददर्श सुतमायान्तं दिवाकरसमप्रभम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  27. असज्जमानं वृक्षेषु शैलेषु विषमेषु च | योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  28. सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः | यथोपजोषं तैश्चापि समागच्छन्महामुनिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  29. ततो निवेदयामास पित्रे सर्वमशेषतः | शुको जनकराजेन संवादं प्रीतमानसः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  30. एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् | उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  31. ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे | वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  32. वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वतितपस्विनः | अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  33. महता श्रेयसा युक्ता यशसा च स्म वर्धिताः | एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  34. इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह | उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  35. एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः | पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  36. ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् | यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  37. काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा | षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  38. चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः | इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  39. उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  40. ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् | ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  41. भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् | नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  42. एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः | नापरीक्षितचारित्रे विद्या देया कथञ्चन

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  43. यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः | परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  44. न नियोज्याश्च वः शिष्या अनियोगे महाभये | यथामति यथापाठं तथा विद्या फलिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  45. सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु | श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  46. वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् | स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  47. यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम् | सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  48. यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति | तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":314,"vulgateChapter":320}

  49. एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति | उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत्