Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 70

Mokshadharma 70 (BORI 237, vulgate 243)

अध्यायः २३७

Shanti Parva Mokshadharma chapter 70 of 186.

36 verses

📖 Book View
  1. वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा | योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम्

    Meaning

    {"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  2. प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् | यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  3. कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु | प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  4. तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा | एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  5. एकश्चरति यः पश्यन्न जहाति न हीयते | अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  6. अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः | लघ्वाशी नियताहारः सकृदन्ननिषेविता

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  7. कपालं वृक्षमूलानि कुचेलमसहायता | उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  8. यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव | न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  9. नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् | ब्राह्मणानां विशेषेण नैव ब्रूयात्कथञ्चन

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  10. यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् | तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  11. येन पूर्णमिवाकाशं भवत्येकेन सर्वदा | शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  12. येन केनचिदाच्छन्नो येन केनचिदाशितः | यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  13. अहेरिव गणाद्भीतः सौहित्यान्नरकादिव | कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  14. न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः | सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  15. नाभिनन्देत मरणं नाभिनन्देत जीवितम् | कालमेव प्रतीक्षेत निदेशं भृतको यथा

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  16. अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा | निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  17. अभयं सर्वभूतेभ्यो भूतानामभयं यतः | तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  18. यथा नागपदेऽन्यानि पदानि पदगामिनाम् | सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  19. एवं सर्वमहिंसायां धर्मार्थमपिधीयते | अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  20. अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः | शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  21. एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः | न मृत्युरतिगो भावः स मृत्युमधिगच्छति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  22. विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् | अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  23. जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च | अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  24. निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् | अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  25. सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति | तेषां भयोत्पादनजातखेदः; कुर्यान्न कर्माणि हि श्रद्दधानः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  26. दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्यधितिष्ठतीह | तीक्ष्णां तनुं यः प्रथमं जहाति; सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  27. उत्तान आस्येन हविर्जुहोति; लोकस्य नाभिर्जगतः प्रतिष्ठा | तस्याङ्गमङ्गानि कृताकृतं च; वैश्वानरः सर्वमेव प्रपेदे

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  28. प्रादेशमात्रे हृदि निश्रितं य; त्तस्मिन्प्राणानात्मयाजी जुहोति | तस्याग्निहोत्रं हुतमात्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  29. दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युरग्र्यं परमार्थतां च | ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  30. वेदांश्च वेद्यं च विधिं च कृत्स्न; मथो निरुक्तं परमार्थतां च | सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  31. भूमावसक्तं दिवि चाप्रमेयं; हिरण्मयं योऽण्डजमण्डमध्ये | पतत्रिणं पक्षिणमन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  32. आवर्तमानमजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व | यस्येदमास्ये परियाति विश्वं; तत्कालचक्रं निहितं गुहायाम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  33. यः सम्प्रसादं जगतः शरीरं; सर्वान्स लोकानधिगच्छतीह | तस्मिन्हुतं तर्पयतीह देवां; स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  34. तेजोमयो नित्यतनुः पुराणो; लोकाननन्तानभयानुपैति | भूतानि यस्मान्न त्रसन्ते कदा चि; त्स भूतेभ्यो न त्रसते कदाचित्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  35. अगर्हणीयो न च गर्हतेऽन्या; न्स वै विप्रः परमात्मानमीक्षेत् | विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च योऽर्थमृच्छति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":237,"vulgateChapter":243}

  36. अरोषमोहः समलोष्टकाञ्चनः; प्रहीणशोको गतसन्धिविग्रहः | अपेतनिन्दास्तुतिरप्रियाप्रिय; श्चरन्नुदासीनवदेष भिक्षुकः