Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 2

Mokshadharma 2 (BORI 169, vulgate 175)

अध्यायः १६९

Shanti Parva Mokshadharma chapter 2 of 186.

37 verses

📖 Book View
  1. अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे | किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  2. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर

    Meaning

    {"speaker":"Bhishma","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  3. द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै | बभूव पुत्रो मेधावी मेधावी नाम नामतः

    Meaning

    {"speaker":"Bhishma","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  4. सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् | मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः

    Meaning

    {"speaker":"Bhishma","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  5. धीरः किं स्वित्तात कुर्यात्प्रजान; न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् | पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  6. पितोवाच|| वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम् | अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  7. एवमभ्याहते लोके समन्तात्परिवारिते | अमोघासु पतन्तीषु किं धीर इव भाषसे

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  8. पितोवाच|| कथमभ्याहतो लोकः केन वा परिवारितः | अमोघाः काः पतन्तीह किं नु भीषयसीव माम्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  9. मृत्युनाभ्याहतो लोको जरया परिवारितः | अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  10. यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह | सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  11. तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  12. वृकीवोरणमासाद्य मृत्युरादाय गच्छति

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  13. अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् | अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  14. को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  15. युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् | कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  16. मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः | कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  17. तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् | सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  18. सञ्चिन्वानकमेवैकं कामानामवितृप्तकम् | व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  19. इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् | एवमीहासुखासक्तं कृतान्तः कुरुते वशे

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  20. कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम् | क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  21. मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् | अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  22. जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् | अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  23. मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः | देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  24. निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः | छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  25. न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः | जीवितार्थापनयनैः कर्मभिर्न स बध्यते

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  26. न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते | ऋते सत्यमसन्त्याज्यं सत्ये ह्यमृतमाश्रितम्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  27. तस्मात्सत्यव्रताचारः सत्ययोगपरायणः | सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  28. अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् | मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  29. सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः | समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  30. शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः | वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  31. पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति | अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  32. यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा | तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  33. नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम् | नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  34. आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा | आत्मन्येव भविष्यामि न मां तारयति प्रजा

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  35. नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च | शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रियाभ्यः

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  36. किं ते धनैर्बान्धवैर्वापि किं ते; किं ते दारैर्ब्राह्मण यो मरिष्यसि | आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च

    Meaning

    {"speaker":"पुत्र","innerSection":"पितापुत्रसंवादः","subParva":"mokshadharma","boriChapter":169,"vulgateChapter":175}

  37. पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप | तथा त्वमपि वर्तस्व सत्यधर्मपरायणः