Mokshadharma Parva · Chapter 92
Mokshadharma 92 (BORI 259, vulgate 265)
अध्यायः २५९
Shanti Parva Mokshadharma chapter 92 of 186.
35 verses
कथं राजा प्रजा रक्षेन्न च किञ्चित्प्रतापयेत् | पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह
Meaning
{"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् | वधाय नीयमानेषु पितुरेवानुशासनात्
Meaning
{"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् | वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति
Meaning
{"speaker":"Bhishma","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् | दस्यवश्चेन्न हन्येरन्सत्यवन्सङ्करो भवेत्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे | लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
सत्यवानुवाच|| सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः | धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः | अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः | असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
असाधुश्चैव पुरुषो लभते शीलमेकदा | साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
न मूलघातः कर्तव्यो नैष धर्मः सनातनः | अपि खल्ववधेनैव प्रायश्चित्तं विधीयते
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
उद्वेजनेन बन्धेन विरूपकरणेन च | वधदण्डेन ते क्लेश्या न पुरोऽहितसम्पदा
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः | करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् | बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वाससम्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
गरीयांसो गरीयांसमपराधे पुनः पुनः | तथा विसर्गमर्हन्ति न यथा प्रथमे तथा
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः | स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
अहन्यमानेषु पुनः सर्वमेव पराभवेत् | पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः | पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते | वधेनापि न शक्यन्ते नियन्तुमपरे जनाः
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः | न गन्धर्वपितॄणां च कः कस्येह न कश्चन
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् | तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
सत्यवानुवाच|| तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया | कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः | अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् | सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते | सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
आत्मानमसमाधाय समाधित्सति यः परान् | विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
यो राज्ञो दम्भमोहेन किञ्चित्कुर्यादसाम्प्रतम् | सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता | दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः | आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
द्वापरे तु द्विपादेन पादेन त्वपरे युगे
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह | भवेत्कालविशेषेण कला धर्मस्य षोडशी
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
अथ प्रथमकल्पेन सत्यवन्सङ्करो भवेत् | आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत्
Meaning
{"speaker":"द्युमत्सेन","innerSection":"विचख्नुगीता","subParva":"mokshadharma","boriChapter":259,"vulgateChapter":265}
सत्याय हि यथा नेह जह्याद्धर्मफलं महत् | भूतानामनुकम्पार्थं मनुः स्वायम्भुवोऽब्रवीत्