Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 34

Mokshadharma 34 — Manu-Bṛhaspati Samvada (BORI 201, vulgate 207)

मनुबृहस्पतिसंवादः

Shanti Parva Mokshadharma chapter 34 of 186. Section: Manu-Bṛhaspati Samvada.

35 verses

📖 Book View
  1. के पूर्वमासन्पतयः प्रजानां भरतर्षभ | के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  2. श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि | प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  3. एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः | ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयम्भुवः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  4. मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः | वसिष्ठश्च महाभागः सदृशा वै स्वयम्भुवा

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  5. सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः | अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  6. अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः | प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  7. दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः | तस्य द्वे नामनी लोके दक्षः क इति चोच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  8. मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते | अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  9. अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् | सहस्रं यश्च दिव्यानां युगानां पर्युपासिता

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  10. अर्यमा चैव भगवान्ये चान्ये तनया विभो | एते प्रदेशाः कथिता भुवनानां प्रभावनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  11. शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत | एकैकस्यां सहस्रं तु तनयानामभूत्तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  12. एवं शतसहस्राणां शतं तस्य महात्मनः | पुत्राणां न च ते कञ्चिदिच्छन्त्यन्यं प्रजापतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  13. प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् | स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  14. एते प्रजानां पतयः समुद्दिष्टा यशस्विनः | अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  15. भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा | सविता चैव धाता च विवस्वांश्च महाबलः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  16. पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते | त एते द्वादशादित्याः कश्यपस्यात्मसम्भवाः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  17. नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि | मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  18. त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः | अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  19. पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  20. एत एवंविधा देवा मनोरेव प्रजापतेः | ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  21. शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः | ऋभवो मरुतश्चैव देवानां चोदिता गणाः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  22. एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ | आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  23. इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  24. एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् | स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  25. यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू | औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  26. ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा | त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  27. उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् | प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  28. मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् | एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम्

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  29. रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् | एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  30. अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः | एते नव महात्मानः पश्चिमामाश्रिता दिशम्

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  31. आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः | गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  32. तथैव पुत्रो भगवानृचीकस्य महात्मनः | जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  33. एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः | साक्षिभूता महात्मानो भुवनानां प्रभावनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  34. एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः | एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}

  35. यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः | मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्