Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 40

Mokshadharma 40 (BORI 207, vulgate 213)

अध्यायः २०७

Shanti Parva Mokshadharma chapter 40 of 186.

29 verses

📖 Book View
  1. गुरुरुवाच|| अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा | तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  2. सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते | पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  3. सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः | ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  4. नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि | ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  5. तांस्तानुपासते धर्मान्धर्मकामा यथागमम् | न त्वेषामर्थसामान्यमन्तरेण गुणानिमान्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  6. वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः | सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  7. यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् | परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  8. लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम् | श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  9. जिह्वया रसनं यच्च तदेव परिवर्जितम् | बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  10. सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् | द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  11. सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु | सम्प्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  12. योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः | कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  13. रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः | मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  14. पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम् | ज्ञानयुक्तेन मनसा सन्ततेन विचक्षणः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  15. कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् | तद्वद्देहगतं विद्यादात्मानं देहबन्धनम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  16. वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च | मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  17. दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः | याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  18. एवमेताः सिरानद्यो रसोदा देहसागरम् | तर्पयन्ति यथाकालमापगा इव सागरम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  19. मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा | शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  20. सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः | नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  21. पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः | शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  22. स्वप्नेऽप्येवं यथाभ्येति मनःसङ्कल्पजं रजः | शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  23. महर्षिर्भगवानत्रिर्वेद तच्छुक्रसम्भवम् | त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  24. ये वै शुक्रगतिं विद्युर्भूतसङ्करकारिकाम् | विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  25. गुणानां साम्यमागम्य मनसैव मनोवहम् | देहकर्म नुदन्प्राणानन्तकाले विमुच्यते

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  26. भविता मनसो ज्ञानं मन एव प्रतायते | ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  27. तस्मात्तदविघाताय कर्म कुर्यादकल्मषम् | रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  28. तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् | परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम्

    Meaning

    {"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}

  29. सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् | यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते