Mokshadharma Parva · Chapter 122
Mokshadharma 122 (BORI 289, vulgate 295)
अध्यायः २८९
Shanti Parva Mokshadharma chapter 122 of 186.
62 verses
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि | तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम
Meaning
{"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः | वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन | वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः | विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा | एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् | शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः | उभे चैते मते तत्त्वे मम तात युधिष्ठिर
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
उभे चैते मते ज्ञाने नृपते शिष्टसंमते | अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ | व्रतानां धारणं तुल्यं दर्शनं न समं तयोः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
यदि तुल्यं व्रतं शौचं दया चात्र पितामह | तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् | योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् | प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः | प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
लोभजानि तथा राजन्बन्धनानि बलान्विताः | छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
अबलाश्च मृगा राजन्वागुरासु तथापरे | विनश्यन्ति न संदेहस्तद्वद्योगबलादृते
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
बलहीनाश्च कौन्तेय यथा जालगता झषाः | अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम | तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परन्तप | अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः | आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
स एव च यदा राजन्वह्निर्जातबलः पुनः | समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
तद्वज्जातबलो योगी दीप्ततेजा महाबलः | अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः | बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
तदेव च यथा स्रोतो विष्टम्भयति वारणः | तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
विशन्ति चावशाः पार्थ योगा योगबलान्विताः | प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः | ईशते नृपते सर्वे योगस्यामिततेजसः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
आत्मनां च सहस्राणि बहूनि भरतर्षभ | योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत् | सङ्क्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव | विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
बलानि योगे प्रोक्तानि मयैतानि विशां पते | निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
आत्मनश्च समाधाने धारणां प्रति चाभिभो | निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः | युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् | पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
युक्त्वा तथायमात्मानं योगः पार्थिव निश्चलम् | करोत्यमलमात्मानं भास्करोपमदर्शनम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
यथा च नावं कौन्तेय कर्णधारः समाहितः | महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित् | दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः | देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
तथैव नृपते योगी धारणासु समाहितः | प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः | पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः | दर्शने स्पर्शने चापि घ्राणे चामितविक्रम
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः | आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् | उत्तमं योगमास्थाय यदीच्छति विमुच्यते
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत | योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति
Meaning
{"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे | स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम | एकारामो विशुद्धात्मा योगी बलमवाप्नुयात्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
पक्षान्मासानृतूंश्चित्रान्सञ्चरंश्च गुहास्तथा | अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
अखण्डमपि वा मासं सततं मनुजेश्वर | उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्नुयात्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च | भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव | स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना | वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् | न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् | श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
अभक्तमटवीप्रायं दावदग्धमहीरुहम् | पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः | क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
सुस्थेयं क्षुरधारासु निशितासु महीपते | धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
विपन्ना धारणास्तात नयन्ति नशुभां गतिम् | नेतृहीना यथा नावः पुरुषानर्णवे नृप
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि | मरणं जन्म दुःखं च सुखं च स विमुञ्चति
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् | परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
परं हि तद्ब्रह्म महन्महात्म; न्ब्रह्माणमीशं वरदं च विष्णुम् | भवं च धर्मं च षडाननं च; षड्ब्रह्मपुत्रांश्च महानुभावान्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
तमश्च कष्टं सुमहद्रजश्च; सत्त्वं च शुद्धं प्रकृतिं परां च | सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश्च कृत्स्नं सुमहच्च धैर्यम्
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
ताराधिपं वै विमलं सतारं; विश्वांश्च देवानुरगान्पितॄंश्च | शैलांश्च कृत्स्नानुदधींश्च घोरा; न्नदीश्च सर्वाः सवनान्घनांश्च
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
नागान्नगान्यक्षगणान्दिशश्च; गन्धर्वसङ्घान्पुरुषान्स्त्रियश्च | परस्परं प्राप्य महान्महात्मा; विशेत योगी नचिराद्विमुक्तः
Meaning
{"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":289,"vulgateChapter":295}
कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम् | योगान्स सर्वानभिभूय मर्त्या; न्नारायणात्मा कुरुते महात्मा