Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 157

Mokshadharma 157 (BORI 324, vulgate 330)

अध्यायः ३२४

Shanti Parva Mokshadharma chapter 157 of 186.

39 verses

📖 Book View
  1. यदा भक्तो भगवत आसीद्राजा महावसुः | किमर्थं स परिभ्रष्टो विवेश विवरं भुवः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  2. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | ऋषीणां चैव संवादं त्रिदशानां च भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  3. अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् | स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  4. ऋषय ऊचुः|| बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः | अजसञ्ज्ञानि बीजानि छागं न घ्नन्तुमर्हथ

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  5. नैष धर्मः सतां देवा यत्र वध्येत वै पशुः | इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  6. अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  7. तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् | ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  8. यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः | कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  9. एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा | अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  10. भो राजन्केन यष्टव्यमजेनाहो स्विदौषधैः | एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  11. स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः | कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  12. ऋषय ऊचुः|| धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप | देवानां तु पशुः पक्षो मतो राजन्वदस्व नः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  13. देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् | छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  14. कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः | ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  15. अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  16. स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  17. देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् | चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  18. अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना | अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  19. इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः | ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  20. ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् | कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  21. मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् | अवश्यं तपसा तेषां फलितव्यं नृपोत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  22. यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् | एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  23. यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  24. प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् | न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  25. वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च | स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  26. एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः | गताः स्वभवनं देवा ऋषयश्च तपोधनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  27. चक्रे च सततं पूजां विष्वक्सेनाय भारत | जप्यं जगौ च सततं नारायणमुखोद्गतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  28. तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम | अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  29. ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः | अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  30. वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् | गरुत्मन्तं महावेगमाबभाषे स्मयन्निव

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  31. द्विजोत्तम महाभाग गम्यतां वचनान्मम | सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  32. ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् | मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  33. भूमेर्विवरसङ्गुप्तं गरुडेह ममाज्ञया | अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  34. गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् | विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  35. तत एनं समुत्क्षिप्य सहसा विनतासुतः | उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  36. तस्मिन्मुहूर्ते सञ्जज्ञे राजोपरिचरः पुनः | सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  37. एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया | प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  38. केवलं पुरुषस्तेन सेवितो हरिरीश्वरः | ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":324,"vulgateChapter":330}

  39. तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप