Mokshadharma Parva · Chapter 140
Mokshadharma 140 (BORI 307, vulgate 313)
अध्यायः ३०७
Shanti Parva Mokshadharma chapter 140 of 186.
14 verses
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ | दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्
Meaning
{"speaker":"Yudhishthira","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
तपसा वा सुमहता कर्मणा वा श्रुतेन वा | रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ
Meaning
{"speaker":"Yudhishthira","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
वैदेहो जनको राजा महर्षिं वेदवित्तमम् | पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम्
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ | तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित् | निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथञ्चन
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः | सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
जरामृत्युमहाग्राहे न कश्चिदभिपद्यते
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः | कालेन जाता जाता हि वायुनेवाभ्रसञ्चयाः
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
जरामृत्यू हि भूतानां खादितारौ वृकाविव | बलिनां दुर्बलानां च ह्रस्वानां महतामपि
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
एवम्भूतेषु भूतेषु नित्यभूताध्रुवेषु च | कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत्
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा | कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि
Meaning
{"speaker":"Bhishma","innerSection":"पञ्चशिखजनकसंवादः","subParva":"mokshadharma","boriChapter":307,"vulgateChapter":313}
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च | आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च