Mokshadharma Parva · Chapter 115
Mokshadharma 115 (BORI 282, vulgate 288)
अध्यायः २८२
Shanti Parva Mokshadharma chapter 115 of 186.
21 verses
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना | प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा | न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः | नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते | तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् | तादृशं कुरुते रूपमेतदेवमवैहि मे
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन | अनित्यमिह मर्त्यानां जीवितं हि चलाचलम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः | यश्चिनोति शुभान्येव स भद्राणीह पश्यति
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् | न तत्सेवेत मेधावी न तद्धितमिहोच्यते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता | स शब्दमात्रफलभाग्राजा भवति तस्करः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् | धातासृजत्पुत्रमेकं प्रजानां धारणे रतम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् | रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः | शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः | सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते | अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः | अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
प्राणसन्तापनिर्दिष्टाः काकिण्योऽपि महाफलाः | न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप | यादृशं तादृशं नित्यमश्नाति फलमूर्जितम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् | याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च | तदाहुरधमं दानं मुनयः सत्यवादिनः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
अतिक्रमे मज्जमानो विविधेन नरः सदा | तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":282,"vulgateChapter":288}
दमेन शोभते विप्रः क्षत्रियो विजयेन तु | धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते