Mokshadharma Parva · Chapter 4
Mokshadharma 4 (BORI 171, vulgate 177)
अध्यायः १७१
Shanti Parva Mokshadharma chapter 4 of 186.
61 verses
ईहमानः समारम्भान्यदि नासादयेद्धनम् | धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात्
Meaning
{"speaker":"Yudhishthira","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
सर्वसाम्यमनायासः सत्यवाक्यं च भारत | निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये | एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः | केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ | आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः | उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना | म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् | युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः | इमं पश्यत सङ्गत्या मम दैवमुपप्लवम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति | उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम | शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् | अन्विष्यमाणं तदपि दैवमेवावतिष्ठते
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता | सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता | प्रतिष्ठता महारण्यं जनकस्य निवेशनात्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् | प्रापणात्सर्वकामानां परित्यागो विशिष्यते
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन | शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक | असकृच्चासि निकृतो न च निर्विद्यसे तनो
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया | मा मां योजय लोभेन वृथा त्वं वित्तकामुक
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः | कदा विमोक्ष्यसे मूढ धनेहां धनकामुक
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव | किं नैव जातु पुरुषः परेषां प्रेष्यतामियात्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् | त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
नूनं ते हृदयं काम वज्रसारमयं दृधम् | यदनर्थशताविष्टं शतधा न विदीर्यते
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
त्यजामि काम त्वां चैव यच्च किञ्चित्प्रियं तव | तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
काम जानामि ते मूलं सङ्कल्पात्किल जायसे | न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यसि
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी | लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
परेत्य यो न लभते ततो दुःखतरं नु किम् | न च तुष्यति लब्धेन भूय एव च मार्गति
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् | मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
य इमं मामकं देहं भूतग्रामः समाश्रितः | स यात्वितो यथाकामं वसतां वा यथासुखम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु | तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः | योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः | यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते | तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् | ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने | धने सुखकला या च सापि दुःखैर्विधीयते
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः | क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया | यद्यदालम्बसे काम तत्तदेवानुरुध्यसे
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः | नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि | नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया | निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् | निकृतो धननाशेन शये सर्वाङ्गविज्वरः
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः | न त्वं मया पुनः काम नस्योतेनेव रंस्यसे
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः | द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् | न सकामं करिष्यामि त्वामहं शत्रुमात्मनः
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् | सर्वभूतदयां चैव विद्धि मां शरणागतम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च | त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च | नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते | कामस्य वशगो नित्यं दुःखमेव प्रपद्यते
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः | कामक्रोधोद्भवं दुःखमह्रीररतिरेव च
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम् | शाम्यामि परिनिर्वामि सुखमासे च केवलम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् | तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् | प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः | सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
दम्यनाशकृते मङ्किरमरत्वं किलागमत् | अच्छिनत्काममूलं स तेन प्राप महत्सुखम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | गीतं विदेहराजेन जनकेन प्रशाम्यता
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन | मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् | निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत | निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम्
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे | कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः
Meaning
{"speaker":"Bhishma","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
उपदेशेन वर्तामि नानुशास्मीह कञ्चन | लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम्
Meaning
{"speaker":"बोध्य","innerSection":"मङ्किगीता","subParva":"mokshadharma","boriChapter":171,"vulgateChapter":177}
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने | इषुकारः कुमारी च षडेते गुरवो मम