Mokshadharma Parva · Chapter 155
Mokshadharma 155 (BORI 322, vulgate 328)
अध्यायः ३२२
Shanti Parva Mokshadharma chapter 155 of 186.
52 verses
स एवमुक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण | जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
यदर्थमात्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा | तत्साध्यतां लोकहितार्थमद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतमुक्तपूर्वम् | पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
एभिर्विशेषैः परिशुद्धसत्त्वः; कस्मान्न पश्येयमनन्तमीशम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
तत्पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता | गच्छेति तं नारदमुक्तवान्स; सम्पूजयित्वात्मविधिक्रियाभिः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
ततो विसृष्टः परमेष्ठिपुत्रः; सोऽभ्यर्चयित्वा तमृषिं पुराणम् | खमुत्पपातोत्तमवेगयुक्त; स्ततोऽधिमेरौ सहसा निलिल्ये
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
तत्रावतस्थे च मुनिर्मुहूर्त; मेकान्तमासाद्य गिरेः स शृङ्गे | आलोकयन्नुत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
क्षीरोदधेरुत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः | मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
अतीन्द्रियाश्चानशनाश्च तत्र; निष्पन्दहीनाः सुसुगन्धिनश्च | श्वेताः पुमांसो गतसर्वपापा; श्चक्षुर्मुषः पापकृतां नराणाम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः | छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
षष्ट्या दन्तैर्युक्ताः शुक्लै; रष्टाभिर्दंष्ट्राभिर्ये | जिह्वाभिर्ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
भक्त्या देवं विश्वोत्पन्नं; यस्मात्सर्वे लोकाः सूताः | वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः | कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा
Meaning
{"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
ये विमुक्ता भवन्तीह नरा भरतसत्तम | तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम्
Meaning
{"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे | त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम्
Meaning
{"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ | सैषा तव हि वक्तव्या कथासारो हि स स्मृतः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
राजोपरिचरो नाम बभूवाधिपतिर्भुवः | आखण्डलसखः ख्यातो भक्तो नारायणं हरिम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः | साम्राज्यं तेन सम्प्राप्तं नारायणवरात्पुरा
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् | पूजयामास देवेशं तच्छेषेण पितामहान्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
सर्वभावेन भक्तः स देवदेवं जनार्दनम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन | एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च | एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः | सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः | प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
न च कायेन कृतवान्स पापं परमण्वपि
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः | तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः | वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोऽष्टमः | एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
लोकान्सञ्चिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः | मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
आराध्य तपसा देवं हरिं नारायणं प्रभुम् | दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
नारायणानुशास्ता हि तदा देवी सरस्वती | विवेश तानृषीन्सर्वाँल्लोकानां हितकाम्यया
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः | शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
आदावेव हि तच्छास्त्रमोङ्कारस्वरभूषितम् | ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः | ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् | लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति | ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः | रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च | सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः | सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
भविष्यति प्रमाणं वै एतन्मदनुशासनम् | अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवः स्वयम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः | तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
स्वायम्भुवेषु धर्मेषु शास्त्रे चोशनसा कृते | बृहस्पतिमते चैव लोकेषु प्रविचारिते
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः | बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
स हि मद्भावितो राजा मद्भक्तश्च भविष्यति | तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसञ्ज्ञितम् | एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ | स च राजा श्रिया युक्तो भविष्यति महान्वसुः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् | अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः | विसृज्य तानृषीन्सर्वान्कामपि प्रस्थितो दिशम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः | प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
उत्पन्नेऽऽङ्गिरसे चैव युगे प्रथमकल्पिते | साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":322,"vulgateChapter":328}
जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः | धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः