Mokshadharma Parva · Chapter 19
Mokshadharma 19 (BORI 186, vulgate 192)
अध्यायः १८६
Shanti Parva Mokshadharma chapter 19 of 186.
32 verses
आचारस्य विधिं तात प्रोच्यमानं त्वयानघ | श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः
Meaning
{"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः | असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः | राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
शौचमावश्यकं कृत्वा देवतानां च तर्पणम् | धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये | सायं प्रातर्जपन्सन्ध्यां तिष्ठेत्पूर्वां तथापराम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः | न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि | देवर्षिनारदप्रोक्तमेतदाचारलक्षणम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम् | ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च | सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् | नान्तरा भोजनं दृष्टमुपवासी तथा भवेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन् | अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् | उपासीत जनः सत्यं सत्यं सन्त उपासते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् | न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
स्वदेशे परदेशे वा अतिथिं नोपवासयेत् | काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् | गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् | मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः | सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् | सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे | स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः | बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
सम्पन्नं भोजने नित्यं पानीये तर्पणं तथा | सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नानेऽथ भोजने | व्याधितानां च सर्वेषामायुष्यमभिनन्दनम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् | सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
त्वङ्कारं नामधेयं च ज्येष्ठानां परिवर्जयेत् | अवराणां समानानामुभयेषां न दुष्यति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
हृदयं पापवृत्तानां पापमाख्याति वैकृतम् | ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः | नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
पापेन हि कृतं पापं पापमेवानुवर्तते | धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तदेति कर्तुः | राहुर्यथा चन्द्रमुपैति चापि; तथाबुधं पापमुपैति कर्म
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
आशया सञ्चितं द्रव्यं यत्काले नेह भुज्यते | तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः | तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
एक एव चरेद्धर्मं नास्ति धर्मे सहायता | केवलं विधिमासाद्य सहायः किं करिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":186,"vulgateChapter":192}
देवा योनिर्मनुष्याणां देवानाममृतं दिवि | प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते