Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 108

Mokshadharma 108 (BORI 275, vulgate 281)

अध्यायः २७५

Shanti Parva Mokshadharma chapter 108 of 186.

21 verses

📖 Book View
  1. शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा | उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  2. अत्रैवोदाहरन्तीममितिहासं पुरातनम् | नारदस्य च संवादं समङ्गस्य च भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  3. उरसेव प्रणमसे बाहुभ्यां तरसीव च | सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे

    Meaning

    {"speaker":"Narada","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  4. उद्वेगं नेह ते किञ्चित्सुसूक्ष्ममपि लक्षये | नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे

    Meaning

    {"speaker":"Narada","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  5. भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद | तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  6. उपक्रमानहं वेद पुनरेव फलोदयान् | लोके फलानि चित्राणि ततो न विमना ह्यहम्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  7. अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद | अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  8. विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः | बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  9. सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा | शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  10. यदा न शोचेमहि किं नु न स्या; द्धर्मेण वा नारद कर्मणा वा | कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षयन्ति

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  11. यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः | मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  12. मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नायं न परोऽस्ति लोकः | न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  13. भावात्मकं सम्परिवर्तमानं; न मादृशः सञ्ज्वरं जातु कुर्यात् | इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तयेद्दुःखमभ्यागतं वा

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  14. समाहितो न स्पृहयेत्परेषां; नानागतं नाभिनन्देत लाभम् | न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  15. न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम् | दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  16. नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम् | धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  17. प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः | उत्सेको नरकायैव तस्मात्तं सन्त्यजाम्यहम्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  18. एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः | पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  19. अर्थकामौ परित्यज्य विशोको विगतज्वरः | तृष्णामोहौ तु सन्त्यज्य चरामि पृथिवीमिमाम्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  20. न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन | पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम्

    Meaning

    {"speaker":"समङ्ग","innerSection":"नारदसमङ्गसंवादः","subParva":"mokshadharma","boriChapter":275,"vulgateChapter":281}

  21. एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् | तेन नारद सम्प्राप्तो न मां शोकः प्रबाधते