Mokshadharma Parva · Chapter 127
Mokshadharma 127 (BORI 294, vulgate 300)
अध्यायः २९४
Shanti Parva Mokshadharma chapter 127 of 186.
49 verses
नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम | पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम्
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ | स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् | तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् | बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च | साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि | योगकृत्यं महाराज पृथगेव शृणुष्व मे
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
योगकृत्यं तु योगानां ध्यानमेव परं बलम् | तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
एकाग्रता च मनसः प्राणायामस्तथैव च | प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप | त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः | दशद्वादशभिर्वापि चतुर्विंशात्परं ततः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ | तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम | द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः | पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर | मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः | बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
न शृणोति न चाघ्राति न रस्यति न पश्यति | न च स्पर्शं विजानाति न सङ्कल्पयते मनः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् | तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते | निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते | हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
विधूम इव सप्तार्चिरादित्य इव रश्मिमान् | वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः | ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् | तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् | महतस्तमसस्तात पारे तिष्ठन्नतामसः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः | विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसञ्ज्ञितः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
योगमेतद्धि योगानां मन्ये योगस्य लक्षणम् | एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया | साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः | तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अहङ्कारस्तु महतस्तृतीयमिति नः श्रुतम् | पञ्च भूतान्यहङ्कारादाहुः साङ्ख्यानुदर्शिनः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश | पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
एतावदेव तत्त्वानां साङ्ख्यमाहुर्मनीषिणः | साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते | लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः | गुणा गुणेषु सततं सागरस्योर्मयो यथा
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् | तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः | अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते | अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते | क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते | ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् | अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम् | साङ्ख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
तत्त्वानि च चतुर्विंशत्परिसङ्ख्याय तत्त्वतः | साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः | यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः | एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा | गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः | विद्यतेऽक्षरभावत्वादपरस्परमव्ययम्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम् | तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् | व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":294,"vulgateChapter":300}
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः | य एनमभिजानन्ति न भयं तेषु विद्यते