Mokshadharma Parva · Chapter 36
Mokshadharma 36 (BORI 203, vulgate 209)
अध्यायः २०३
Shanti Parva Mokshadharma chapter 36 of 186.
43 verses
योगं मे परमं तात मोक्षस्य वद भारत | तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर
Meaning
{"speaker":"Yudhishthira","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
चरणावुपसङ्गृह्य स्थितः प्राञ्जलिरब्रवीत्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम | संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् | एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
गुरुरुवाच|| शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् | अध्यात्मं सर्वभूतानामागमानां च यद्वसु
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् | सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् | त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् | वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् | नागासुरमनुष्यांश्च सृजते परमोऽव्ययः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् | प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये | दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु | तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः | लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः | भार्गवो नीतिशास्त्रं च जगाद जगतो हितम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् | देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः | हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः | एकस्तद्वेद भगवान्धाता नारायणः प्रभुः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
नारायणादृषिगणास्तथा मुख्याः सुरासुराः | राजर्षयः पुराणाश्च परमं दुःखभेषजम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा | हेतुयुक्तमतः सर्वं जगत्सम्परिवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः | प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
अव्यक्तकर्मजा बुद्धिरहङ्कारं प्रसूयते | आकाशं चाप्यहङ्काराद्वायुराकाशसम्भवः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता | मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि | विषयाः पञ्च चैकं च विकारे षोडशं मनः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि | पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च | विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च | इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
विद्यात्तु षोडशैतानि दैवतानि विभागशः | देहेषु ज्ञानकर्तारमुपासीनमुपासते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा | सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
एते भावा जगत्सर्वं वहन्ति सचराचरम् | श्रिता विरजसं देवं यमाहुः परमं पदम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् | व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् | व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् | ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति | कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते | तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः | सन्तन्वाना यथा यान्ति तथा देहाः शरीरिणाम्
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः | देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते | कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा
Meaning
{"speaker":"Bhishma","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":203,"vulgateChapter":209}
स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते | तथा तं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम्