Mokshadharma Parva · Chapter 177
Mokshadharma 177 (BORI 344, vulgate 350)
अध्यायः ३४४
Shanti Parva Mokshadharma chapter 177 of 186.
10 verses
अतिभारोद्यतस्यैव भारापनयनं महत् | पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् | तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
ईप्सितस्येव सम्प्राप्तिरन्नस्य समयेऽतिथेः | एषितस्यात्मनः काले वृद्धस्येव सुतो यथा
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् | प्रह्रादयति मां वाक्यं भवता यदुदीरितम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
बाढमेवं करिष्यामि यथा मां भाषते भवान्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन | उवास किल तां रात्रिं सह तेन द्विजेन वै
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा | व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः | ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":344,"vulgateChapter":350}
ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित् | यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः