Mokshadharma Parva · Chapter 146
Mokshadharma 146 (BORI 313, vulgate 319)
अध्यायः ३१३
Shanti Parva Mokshadharma chapter 146 of 186.
51 verses
ततः स राजा जनको मन्त्रिभिः सह भारत | पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
आसनं च पुरस्कृत्य रत्नानि विविधानि च | शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
स तदासनमादाय बहुरत्नविभूषितम् | स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
पुरोधसा सङ्गृहीतं हस्तेनालभ्य पार्थिवः | प्रददौ गुरुपुत्राय शुकाय परमार्चितम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः | गां चैव समनुज्ञाय राजानमनुमान्य च
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् | अनामयं च राजेन्द्र शुकः सानुचरस्य ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
अनुज्ञातः स तेनाथ निषसाद सहानुगः | उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः | किमागमनमित्येव पर्यपृच्छत पार्थिवः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः | विदेहराजो याज्यो मे जनको नाम विश्रुतः
Meaning
{"speaker":"Shuka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः | प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम्
Meaning
{"speaker":"Shuka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः | तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि
Meaning
{"speaker":"Shuka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः | कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा
Meaning
{"speaker":"Shuka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु | कृतोपनयनस्तात भवेद्वेदपरायणः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो | देवतानां पितॄणां चाप्यनृणश्चानसूयकः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च | अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् | अनसूयुर्यथान्यायमाहिताग्निस्तथैव च
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् | तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् | निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते | किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च
Meaning
{"speaker":"Shuka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति | यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप
Meaning
{"speaker":"Shuka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् | न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते | विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् | पूर्वैराचरितो धर्मश्चातुराश्रम्यसङ्कथः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
अनेन क्रमयोगेन बहुजातिषु कर्मणा | कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
भवितैः कारणैश्चायं बहुसंसारयोनिषु | आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः | त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् | सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि | सम्पश्यन्नोपलिप्येत जले वारिचरो यथा
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते | विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना | धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् | स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
न बिभेति परो यस्मान्न बिभेति पराच्च यः | यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
यदा भावं न कुरुते सर्वभूतेषु पापकम् | कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् | त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् | समो भवति निर्द्वंद्वो ब्रह्म सम्पद्यते तदा
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति | काञ्चनं चायसं चैव सुखदुःखे तथैव च
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् | जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः | तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
तमःपरिगतं वेश्म यथा दीपेन दृश्यते | तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर | यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः | गुरोस्तव प्रसादेन तव चैवोपशिक्षया
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने | ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
अधिकं तव विज्ञानमधिका च गतिस्तव | अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् | उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः | विमुच्य हृदयग्रन्थीनासादयति तां गतिम्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः | व्यवसायादृते ब्रह्मन्नासादयति तत्परम्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा | नौत्सुक्यं नृत्तगीतेषु न राग उपजायते
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् | पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः | आस्थितं परमं मार्गमक्षयं तमनामयम्
Meaning
{"speaker":"Janaka","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":313,"vulgateChapter":319}
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः | तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि