Mokshadharma Parva · Chapter 168
Mokshadharma 168 (BORI 335, vulgate 341)
अध्यायः ३३५
Shanti Parva Mokshadharma chapter 168 of 186.
89 verses
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः | स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा | रूपं प्रभावमहतामपूर्वं धीमतां वर
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् | तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् | जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः | उत्पन्नसंशयो राजा तमेव समचोदयत्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम् | किमर्थं तत्समभवद्वपुर्देवोपकल्पितम्
Meaning
{"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
यत्किञ्चिदिह लोके वै देहबद्धं विशां पते | सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा | ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
वायौ चाकाशसंलीने आकाशे च मनोनुगे | व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च | तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
तमसो ब्रह्म सम्भूतं तमोमूलमृतात्मकम् | तद्विश्वभावसञ्ज्ञान्तं पौरुषीं तनुमास्थितम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते | तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
हिरण्यगर्भो भगवान्सर्वलोकपितामहः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
पद्मेऽनिरुद्धात्सम्भूतस्तदा पद्मनिभेक्षणः | सहस्रपत्रे द्युतिमानुपविष्टः सनातनः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ददृशेऽद्भुतसङ्काशे लोकानापोमयान्प्रभुः | सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे | नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
तावपश्यत्स भगवाननादिनिधनोऽच्युतः | एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
स तामसो मधुर्जातस्तदा नारायणाज्ञया | कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ | बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम् | सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ | सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् | रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् | ततो वचनमीशानं प्राह वेदैर्विनाकृतः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् | वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अहो बत महद्दुःखं वेदनाशनजं मम | प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् | वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज | लोकाद्य भुवनश्रेष्ठ साङ्ख्ययोगनिधे विभो
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित | विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे | त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् | त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो | नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् | इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः | प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
त्वमीश्वरस्वभावश्च स्वयम्भूः पुरुषोत्तमः | त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि | ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा | कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका | केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
कर्णावाकाशपाताले ललाटं भूतधारिणी | गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
चक्षुषी सोमसूर्यौ ते नासा सन्ध्या पुनः स्मृता | ओङ्कारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् | अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
रसां पुनः प्रविष्टश्च योगं परममास्थितः | शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
स स्वरः सानुनादी च सर्वगः स्निग्ध एव च | बभूवान्तर्महीभूतः सर्वभूतगुणोदितः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् | रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ | वेदानामालयश्चापि बभूवाश्वशिरास्ततः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ददृशाते च पुरुषं तमेवादिकरं प्रभुम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् | भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
आत्मप्रमाणरचिते अपामुपरि कल्पिते | शयने नागभोगाढ्ये ज्वालामालासमावृते
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम् | तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ | अयं स पुरुषः श्वेतः शेते निद्रामुपागतः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अनेन नूनं वेदानां कृतमाहरणं रसात् | कस्यैष को नु खल्वेष किं च स्वपिति भोगवान्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् | युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे | अथ युद्धं समभवत्तयोर्नारायणस्य च
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ | ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ततस्तयोर्वधेनाशु वेदापहरणेन च | शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः | निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् | तत्रैवान्तर्दधे देवो यत एवागतो हरिः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् | पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
एवमेष महाभागो बभूवाश्वशिरा हरिः | पौराणमेतदाख्यातं रूपं वरदमैश्वरम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा | न तस्याध्ययनं नाशमुपगच्छेत्कदाचन
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
आराध्य तपसोग्रेण देवं हयशिरोधरम् | पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् | पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् | तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
एष वेदनिधिः श्रीमानेष वै तपसो निधिः | एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हरिर्विभुः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
नारायणपरा वेदा यज्ञा नारायणात्मकाः | तपो नारायणपरं नारायणपरा गतिः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
नारायणपरं सत्यमृतं नारायणात्मकम् | नारायणपरो धर्मः पुनरावृत्तिदुर्लभः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः | नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अपां चैव गुणो राजन्रसो नारायणात्मकः | ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः | नारायणात्मकश्चापि शब्द आकाशसम्भवः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् | नारायणपरः कालो ज्योतिषामयनं च यत्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः | नारायणपरं साङ्ख्यं योगो नारायणात्मकः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
कारणं पुरुषो येषां प्रधानं चापि कारणम् | स्वभावश्चैव कर्माणि दैवं येषां च कारणम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः | तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः | सब्रह्मकानां लोकानामृषीणां च महात्मनाम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् | मनीषितं विजानाति केशवो न तु तस्य ते
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते | दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः | सर्वभूतकृतावासो वासुदेवेति चोच्यते
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
अयं हि नित्यः परमो महर्षि; र्महाविभूतिर्गुणवान्निर्गुणाख्यः | गुणैश्च संयोगमुपैति शीघ्रं; कालो यथर्तावृतुसम्प्रयुक्तः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":335,"vulgateChapter":341}
नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश्चिदिहानुपस्यति | ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम्