Mokshadharma Parva · Chapter 86
Mokshadharma 86 (BORI 253, vulgate 259)
अध्यायः २५३
Shanti Parva Mokshadharma chapter 86 of 186.
51 verses
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | तुलाधारस्य वाक्यानि धर्मे जाजलिना सह
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः | सागरोद्देशमागम्य तपस्तेपे महातपाः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
नियतो नियताहारश्चीराजिनजटाधरः | मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स कदाचिन्महातेजा जलवासो महीपते | चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स चिन्तयामास मुनिर्जलमध्ये कदाचन | विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे | अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः | अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः | सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः | पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात् | अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा | वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
किं कृतं सुकृतं कर्म तात जाजलिना पुरा | येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि
Meaning
{"speaker":"Yudhishthira","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अतीव तपसा युक्तो घोरेण स बभूव ह | नद्युपस्पर्शनरतः सायं प्रातर्महातपाः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः | वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत | वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
वतातपसहो ग्रीष्मे न च धर्ममविन्दत | दुःखशय्याश्च विविधा भूमौ च परिवर्तनम्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः | अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो | अरण्यगमनान्नित्यं मलिनो मलसंयुताः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स कदाचिन्निराहारो वायुभक्षो महातपाः | तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत | कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती | कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
यदा स न चलत्येव स्थाणुभूतो महातपाः | ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अतीतास्वथ वर्षासु शरत्काल उपस्थिते | प्राजापत्येन विधिना विश्वासात्काममोहितौ
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ | तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
बुद्ध्वा च स महातेजा न चचालैव जाजलिः | धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि | आश्वासितौ वै वसतः सम्प्रहृष्टौ तदा विभो
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः | व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः | तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः | बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः | बभूव परमप्रीतस्तदा मतिमतां वरः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम् | शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् | सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति सन्ततम् | त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप | उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
कदाचिद्दिवसान्पञ्च समुत्पत्य विहङ्गमाः | षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
क्रमेण च पुनः सर्वे दिवसानि बहून्यपि | नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
कदाचिन्मासमात्रेण समुत्पत्य विहङ्गमाः | नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः | सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः | सम्भावितात्मा सम्भाव्य भृशं प्रीतस्तदाभवन्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् | उदयन्तमथादित्यमभ्यगच्छन्महातपाः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
सम्भाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः | आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः | धर्मेण न समस्त्वं वै तुलाधारस्य जाजले
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः | सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया | पृथिवीमचरद्राजन्यत्रसायङ्गृहो मुनिः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
कालेन महतागच्छत्स तु वाराणसीं पुरीम् | विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः | समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत्
Meaning
{"speaker":"Bhishma","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
आयानेवासि विदितो मम ब्रह्मन्न संशयः | ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम
Meaning
{"speaker":"तुलाधार","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् | न च धर्मस्य सञ्ज्ञां त्वं पुरा वेत्थ कथञ्चन
Meaning
{"speaker":"तुलाधार","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः | क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया
Meaning
{"speaker":"तुलाधार","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम
Meaning
{"speaker":"तुलाधार","innerSection":"तुलाधारजाजलिसंवादः","subParva":"mokshadharma","boriChapter":253,"vulgateChapter":259}
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह | करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम