Mokshadharma Parva · Chapter 152
Mokshadharma 152 (BORI 319, vulgate 325)
अध्यायः ३१९
Shanti Parva Mokshadharma chapter 152 of 186.
29 verses
गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत | समे देशे विविक्ते च निःशलाक उपाविशत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
धारयामास चात्मानं यथाशास्त्रं महामुनिः | पादात्प्रभृतिगात्रेषु क्रमेण क्रमयोगवित्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते | पाणिपादं समाधाय विनीतवदुपाविशत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
न तत्र पक्षिसङ्घातो न शब्दो नापि दर्शनम् | यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् | प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये | महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा | निवेदयामास तदा स्वं योगं परमर्षये
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन | त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः | अभिवाद्य पुनर्योगमास्थायाकाशमाविशत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा | अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् | ददृशुः सर्वभूतानि मनोमारुतरंहसम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् | आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
तमेकमनसं यान्तमव्यग्रमकुतोभयम् | ददृशुः सर्वभूतानि जङ्गमानीतराणि च
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा | पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः | ऋषयश्चैव संसिद्धाः परं विस्मयमागताः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः | अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
शब्देनाकाशमखिलं पूरयन्निव सर्वतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् | सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
पितृशुश्रूषया सिद्धिं सम्प्राप्तोऽयमनुत्तमाम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः | अनन्यमनसा तेन कथं पित्रा विवर्जितः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् | उदैक्षत दिशः सर्वा वचने गतमानसः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् | आलोकयामास तदा सरांसि सरितस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
ततो द्वैपायनसुतं बहुमानपुरःसरम् | कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् | पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
ततः प्रतिवचो देयं सर्वैरेव समाहितैः | एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः | समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":319,"vulgateChapter":325}
यथाज्ञापयसे विप्र बाढमेवं भविष्यति | ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम्