Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 123

Mokshadharma 123 — Sulabha-Janaka Samvada (BORI 290, vulgate 296)

सुलभाजनकसंवादः

Shanti Parva Mokshadharma chapter 123 of 186. Section: Sulabha-Janaka Samvada.

110 verses

📖 Book View
  1. सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः | योगमार्गो यथान्यायं शिष्यायेह हितैषिणा

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  2. साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते | त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  3. शृणु मे त्वमिदं शुद्धं साङ्ख्यानां विदितात्मनाम् | विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  4. यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ | गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  5. ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप | मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  6. राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा | विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  7. पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप | सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  8. राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा | आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  9. देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् | विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  10. आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः | सुखस्य च परं तत्त्वं विज्ञाय वदतां वर

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  11. प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् | तिर्यक्च पततां दुःखं पततां नरके च यत्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  12. स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत | वेदवादे च ये दोषा गुणा ये चापि वैदिकाः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  13. ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप | साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  14. सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा | तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  15. षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा | बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  16. द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः | मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  17. ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताः शुभैः | प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इह नभः परम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  18. रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च | शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  19. तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् | मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  20. विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् | अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  21. तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् | नभो महति संयुक्तं महद्बुद्धौ च संश्रितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  22. बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् | रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  23. सक्तमात्मानमीशे च देवे नारायणे तथा | देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  24. ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः | स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  25. मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते | द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  26. इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् | प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  27. अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः | सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  28. प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् | सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तप

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  29. सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् | ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  30. महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव | गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  31. वैतरण्यां च यद्दुःखं पतितानां यमक्षये | योनीषु च विचित्रासु संसारानशुभांस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  32. जठरे चाशुभे वासं शोणितोदकभाजने | श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  33. शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे | सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  34. विज्ञायाहितमात्मानं योगांश्च विविधान्नृप | तामसानां च जन्तूनां रमणीयावृतात्मनाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  35. सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ | गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  36. उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा | ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  37. द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप | अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  38. बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् | रागे मोहे च सम्प्राप्ते क्वचित्सत्त्वं समाश्रितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  39. सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः | दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  40. बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः | विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  41. गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् | वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  42. गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  43. जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर | सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  44. तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् | तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  45. वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा | क्षयं संवत्सराणां च मासानां प्रक्षयं तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  46. पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् | क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  47. वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः | क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  48. संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः | क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  49. वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः | जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  50. देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः | देहविक्लवतां चैव सम्यग्विज्ञाय भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  51. आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् | स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  52. कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम | एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  53. पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः | मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  54. कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते | एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  55. छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  56. गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि | हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  57. अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम् | चित्तभित्तिप्रतीकाशं नलसारमनर्थकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  58. रजस्तमसि संमग्नं पङ्के द्विपमिवावशम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  59. साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् | ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  60. छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  61. ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् | व्याधिमृत्युमहाग्राहं महाभयमहोरगम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  62. तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत | स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  63. कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप | हिंसाशीघ्रमहावेगं नानारसमहाकरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  64. नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् | शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  65. अस्थिसङ्घातसङ्घाटं श्लेष्मफेनमरिंदम | दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  66. हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् | रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  67. पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम् | अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  68. वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् | मोक्षदुष्प्रापविषयं वडवामुखसागरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  69. तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत | तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  70. ततस्तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः | पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  71. तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत | वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  72. स तान्वहति कौन्तेय नभसः परमां गतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  73. नभो वहति लोकेश रजसः परमां गतिम् | रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  74. सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम् | प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  75. परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  76. स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः | आजन्ममरणं वा ते स्मरन्त्युत न वानघ

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  77. यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि | त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  78. मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् | यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  79. प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप | मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत्

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  80. अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  81. कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  82. आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु | विनश्यन्ति न संदेहः फेना इव महार्णवे

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  83. इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन | सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  84. स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो | बुध्यमानो यथापूर्वमखिलेनेह भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  85. इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि | अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  86. इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः | आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  87. सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः | गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  88. गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा | गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  89. अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि | सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  90. आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे | शिष्या इव महात्मानमिन्द्रियाणि च तं विभो

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  91. प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् | परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  92. विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् | परमात्मानमगुणं न निवर्तति भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  93. शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत | आगच्छन्ति यथाकालं गुरोः संदेशकारिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  94. शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना | एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  95. साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् | ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  96. अत्र ते संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम् | अक्षरं ध्रुवमव्यक्तं पूर्वं ब्रह्म सनातनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  97. अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् | कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  98. यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः | यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  99. सर्वे विप्राश्च देवाश्च तथागमविदो जनाः | ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  100. प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः | सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  101. अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः | अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  102. द्विविधानीह भूतानि पृथिव्यां पृथिवीपते | जङ्गमागमसञ्ज्ञानि जङ्गमं तु विशिष्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  103. ज्ञानं महद्यद्धि महत्सु राज; न्वेदेषु साङ्ख्येषु तथैव योगे | यच्चापि दृष्टं विविधं पुराणं; साङ्ख्यागतं तन्निखिलं नरेन्द्र

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  104. यच्चेतिहासेषु महत्सु दृष्टं; यच्चार्थशास्त्रे नृप शिष्टजुष्टे | ज्ञानं च लोके यदिहास्ति किं चि; त्साङ्ख्यागतं तच्च महन्महात्मन्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  105. शमश्च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावदुक्तम् | तपांसि सूक्ष्माणि सुखानि चैव; साङ्ख्ये यथावद्विहितानि राजन्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  106. विपर्यये तस्य हि पार्थ देवा; न्गच्छन्ति साङ्ख्याः सततं सुखेन | तांश्चानुसञ्चार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  107. हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्यामिव पार्थ साङ्ख्याः | ततोऽधिकं तेऽभिरता महार्हे; साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  108. तेषां न तिर्यग्गमनं हि दृष्टं; नावाग्गतिः पापकृतां निवासः | न चाबुधानामपि ते द्विजातयो; ये ज्ञानमेतन्नृपतेऽनुरक्ताः

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  109. साङ्क्यं विशालं परमं पुराणं; महार्णवं विमलमुदारकान्तम् | कृत्स्नं च साङ्ख्यं नृपते महात्मा; नारायणो धारयतेऽप्रमेयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":290,"vulgateChapter":296}

  110. एतन्मयोक्तं नरदेव तत्त्वं; नारायणो विश्वमिदं पुराणम् | स सर्गकाले च करोति सर्गं; संहारकाले च तदत्ति भूयः