Mokshadharma Parva · Chapter 85
Mokshadharma 85 (BORI 252, vulgate 258)
अध्यायः २५२
Shanti Parva Mokshadharma chapter 85 of 186.
20 verses
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् | प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया | इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
इमानि हि प्रापयन्ति सृजन्त्युत्तारयन्ति च | न धर्मः परिपाठेन शक्यो भारत वेदितुम्
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः | आपदस्तु कथं शक्याः परिपाठेन वेदितुम्
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः | साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम्
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन् | धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन्
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः | वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम्
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे | अन्ये कलियुगे धर्मा यथाशक्तिकृता इव
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
आम्नायवचनं सत्यमित्ययं लोकसङ्ग्रहः | आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते | प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः | या या विक्रियते संस्था ततः सापि प्रणश्यति
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा | अणीयान्क्षुरधाराया गरीयान्पर्वतादपि
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
गन्धर्वनगराकारः प्रथमं सम्प्रदृश्यते | अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम्
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत | स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
कामादन्ये क्षयादन्ये कारणैरपरैस्तथा | असन्तो हि वृथाचारं भजन्ते बहवोऽपरे
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु | अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः | न हि सर्वहितः कश्चिदाचारः सम्प्रदृश्यते
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः | दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
येनैवान्यः प्रभवति सोऽपरानपि बाधते | आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत्
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":252,"vulgateChapter":258}
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः | तेनाचारेण पूर्वेण संस्था भवति शाश्वती