Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 120

Mokshadharma 120 (BORI 287, vulgate 293)

अध्यायः २८७

Shanti Parva Mokshadharma chapter 120 of 186.

45 verses

📖 Book View
  1. पुनरेव तु पप्रच्छ जनको मिथिलाधिपः | पराशरं महात्मानं धर्मे परमनिश्चयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  2. किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति | क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  3. असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा | चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  4. छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते | दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  5. यो ददाति सहस्राणि गवामश्वशतानि च | अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  6. वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् | संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  7. नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत् | अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  8. न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  9. बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते | शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  10. वीतरागो जितक्रोधः सम्यग्भवति यः सदा | विषये वर्तमानोऽपि न स पापेन युज्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  11. मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति | पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  12. यथा भानुगतं तेजो मणिः शुद्धः समाधिना | आदत्ते राजशार्दूल तथा योगः प्रवर्तते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  13. यथा तिलानामिह पुष्पसंश्रया; त्पृथक्पृथग्याति गुणोऽतिसौम्यताम् | तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  14. जहाति दारानिहते न सम्पदः; सदश्वयानं विविधाश्च याः क्रियाः | त्रिविष्टपे जातमतिर्यदा नर; स्तदास्य बुद्धिर्विषयेषु भिद्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  15. प्रसक्तबुद्धिर्विषयेषु यो नरो; यो बुध्यते ह्यात्महितं कदा च न | स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  16. सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः | कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  17. न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते | क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखेऽभिवर्तते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  18. यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति | तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  19. मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् | अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  20. मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  21. परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते | इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  22. अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् | प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  23. मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः | तथा शरीरं तपसा तप्तं विषयमश्नुते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  24. विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् | यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  25. नीहारेण हि संवीतः शिश्नोदरपरायणः | जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  26. वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् | तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  27. अहोरात्रमये लोके जरारूपेण सञ्चरन् | मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  28. स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते | नाकृतं लभते कश्चित्किञ्चिदत्र प्रियाप्रियम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  29. शयानं यान्तमासीनं प्रवृत्तं विषयेषु च | शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  30. न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति | दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  31. यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना | तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  32. यथा समुद्रमभितः संस्यूताः सरितोऽपराः | तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  33. स्नेहपाशैर्बहुविधैरासक्तमनसो नराः | प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  34. शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः | बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  35. विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः | परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  36. सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः | भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  37. न माता न पिता किञ्चित्कस्यचित्प्रतिपद्यते | दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  38. माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा | अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  39. सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्यात्मनो यान्ति जन्तोः | उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयतेऽन्तरात्मा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  40. व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति | न तस्य कश्चिदारम्भः कदाचिदवसीदति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  41. अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् | न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  42. आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया | यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  43. सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं; गर्भात्सम्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् | मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता; दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  44. स्वरूपतामात्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसञ्चयम् | नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":287,"vulgateChapter":293}

  45. इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा | श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह