Mokshadharma Parva · Chapter 171
Mokshadharma 171 (BORI 338, vulgate 344)
अध्यायः ३३८
Shanti Parva Mokshadharma chapter 171 of 186.
25 verses
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु | को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
बहवः पुरुषा लोके साङ्ख्ययोगविचारिणाम् | नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
बहूनां पुरुषाणां च यथैका योनिरुच्यते | तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
नमस्कृत्वा तु गुरवे व्यासायामिततेजसे | तपोयुक्ताय दान्ताय वन्द्याय परमर्षये
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव | ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः | अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् | तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः | वैजयन्त इति ख्यातः पर्वतप्रवरो नृप
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् | वैराजसदने नित्यं वैजयन्तं निषेवते
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
ततः खान्निपपाताशु धरणीधरमूर्धनि | अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना | उत्थापयामास तदा प्रभुरेकः प्रजापतिः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् | स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा | नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम | कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
चिरदृष्टो हि भगवान्वैराजसदने मया | ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम्
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
कौतूहलं चापि हि मे एकान्तगमनेन ते | नैतत्कारणमल्पं हि भविष्यति पितामह
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् | सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम् | उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
ब्रह्मोवाच|| वैजयन्तो गिरिवरः सततं सेव्यते मया | अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट्
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुवा | सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट्
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः | एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते
Meaning
{"speaker":"रुद्र","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":338,"vulgateChapter":344}
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्