Mokshadharma Parva · Chapter 43
Mokshadharma 43 (BORI 210, vulgate 216)
अध्यायः २१०
Shanti Parva Mokshadharma chapter 43 of 186.
36 verses
गुरुरुवाच|| न स वेद परं धर्मं यो न वेद चतुष्टयम् | व्यक्ताव्यक्ते च यत्तत्त्वं सम्प्राप्तं परमर्षिणा
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् | प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् | निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् | प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
तां गतिं परमामेति निवृत्तिपरमो मुनिः | ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ | अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
तं विशेषमवेक्षेत विशेषेण विचक्षणः | अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ | सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया | विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् | अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
कीर्त्यते शब्दसञ्ज्ञाभिः कोऽहमेषोऽप्यसाविति
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः | संवृतोऽयं तथा देही सत्त्वराजसतामसैः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम् | यथासञ्ज्ञो ह्ययं सम्यगन्तकाले न मुह्यति
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः | शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता | सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः | रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते | वाङ्मनोनियमः साम्यं मानसं तप उच्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते | आहारनियमेनास्य पाप्मा नश्यति राजसः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
वैमनस्यं च विषये यान्त्यस्य करणानि च | तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः | एवं युक्तेन मनसा ज्ञानं तदुपपद्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा | परप्रत्ययसर्गे तु नियतं नातिवर्तते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
युक्तो धारणया कश्चित्सत्तां केचिदुपासते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् | अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
सर्व एते महात्मानो गच्छन्ति परमां गतिम् | सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् | अन्तरिक्षादन्यतरं धारणासक्तमानसम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः | ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम् | ते यान्ति परमाँल्लोकान्विशुध्यन्तो यथाबलम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
भगवन्तमजं दिव्यं विष्णुमव्यक्तसञ्ज्ञितम् | भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः | प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च | तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे | तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः | तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
विकारं प्रकृतिं चैव पुरुषं च सनातनम् | यो यथावद्विजानाति स वितृष्णो विमुच्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":210,"vulgateChapter":216}
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् | भूतानामनुकम्पार्थं जगाद जगतो हितम्