Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 72

Mokshadharma 72 (BORI 239, vulgate 245)

अध्यायः २३९

Shanti Parva Mokshadharma chapter 72 of 186.

25 verses

📖 Book View
  1. अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे | यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम

    Meaning

    {"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  2. अध्यात्मं यदिदं तात पुरुषस्येह विद्यते | तत्तेऽहं सम्प्रवक्ष्यामि तस्य व्याख्यामिमां शृणु

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  3. भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च | महाभूतानि भूतानां सागरस्योर्मयो यथा

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  4. प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः | तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  5. इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् | सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  6. महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् | अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  7. अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् | इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्

    Meaning

    {"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  8. एतत्ते वर्तयिष्यामि यथावदिह दर्शनम् | शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  9. शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् | प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  10. रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते | रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  11. घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः | एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  12. वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते | आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  13. मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः | न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  14. इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते | सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  15. चक्षुरालोचनायैव संशयं कुरुते मनः | बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  16. रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः | समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  17. यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति | एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  18. यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति | एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  19. गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि | मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  20. तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत् | प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  21. यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत् | रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  22. यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् | अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  23. प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता | अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  24. अभिमानो मृषावादो लोभो मोहस्तथाक्षमा | लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":239,"vulgateChapter":245}

  25. तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता | कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः