Mokshadharma Parva · Chapter 176
Mokshadharma 176 (BORI 343, vulgate 349)
अध्यायः ३४३
Shanti Parva Mokshadharma chapter 176 of 186.
11 verses
अतिथिरुवाच|| उपदेशं तु ते विप्र करिष्येऽहं यथागमम् | गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम् | नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ | यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् | पद्मनाभो महाभागः पद्म इत्येव विश्रुतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
स वाचा कर्मणा चैव मनसा च द्विजर्षभ | प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् | विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम् | स ते परमकं धर्मं नमिथ्या दर्शयिष्यति
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः | गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः | तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः | सत्यवागनसूयुश्च शीलवानभिसंश्रितः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":343,"vulgateChapter":349}
शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः | अवैरकृद्भूतहिते नियुक्तो; गङ्गाह्रदाम्भोऽभिजनोपपन्नः