Mokshadharma Parva · Chapter 181
Mokshadharma 181 (BORI 348, vulgate 354)
अध्यायः ३४८
Shanti Parva Mokshadharma chapter 181 of 186.
20 verses
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि | मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि | संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
सुरासुरगणानां च देवर्षीणां च भामिनि | ननु नागा महावीर्याः सौरसेयास्तरस्विनः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
वन्दनीयाश्च वरदा वयमप्यनुयायिनः | मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
नागभार्योवाच|| आर्जवेनाभिजानामि नासौ देवोऽनिलाशन | एकं त्वस्य विजानामि भक्तिमानतिरोषणः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा | वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
न हि त्वा दैवतं किञ्चिद्विविग्नं प्रतिपालयेत् | तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि | आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम् | राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत् | वाग्मित्वं सत्यवाक्येन परत्र च महीयते
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम् | नष्टस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
अभिप्रेतामसङ्क्लिष्टां कृत्वाकामवतीं क्रियाम् | न याति निरयं कश्चिदिति धर्मविदो विदुः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
अभिमानेन मानो मे जातिदोषेण वै महान् | रोषः सङ्कल्पजः साध्वि दग्धो वाचाग्निना त्वया
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
न च रोषादहं साध्वि पश्येयमधिकं तमः | यस्य वक्तव्यतां यान्ति विशेषेण भुजङ्गमाः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् | तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् | धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
जामदग्न्येन रामेण सहस्रनयनोपमः | संयुगे निहतो रोषात्कार्तवीर्यो महाबलः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
तदेष तपसां शत्रुः श्रेयसश्च निपातनः | निगृहीतो मया रोषः श्रुत्वैव वचनं तव
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि | यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":348,"vulgateChapter":354}
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः | सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति