Mokshadharma Parva · Chapter 160
Mokshadharma 160 (BORI 327, vulgate 333)
अध्यायः ३२७
Shanti Parva Mokshadharma chapter 160 of 186.
107 verses
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः | यज्ञधारी च सततं वेदवेदाङ्गवित्तथा
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः | प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः | कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् | त्वया नारायणकथा श्रुता वै धर्मसंहिता
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः | ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः | यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
आकाशं जगती चैव ये च शेषा दिवौकसः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् | ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः | दोषः कालपरीमाणे महानेष क्रियावताम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् | छिन्धीतिहासकथनात्परं कौतूहलं हि मे
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज | किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम | ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः | कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः | अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् | शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
वेदानध्यापयामास महाभारतपञ्चमान् | मेरौ गिरिवरे रम्ये सिद्धचारणसेविते
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः | पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
मया हि सुमहत्तप्तं तपः परमदारुणम् | भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च | नारायणप्रसादेन क्षीरोदस्यानुकूलतः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः | महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः | अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् | अहङ्कारप्रसूतानि महाभूतानि भारत
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः | भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् | एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः | उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना | येन यस्मिन्नधीकारे वर्तितव्यं पितामह
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः | परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः | एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः | ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः | कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् | महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा | क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् | स महानियमो नाम तपश्चर्या सुदारुणा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् | एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् | शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः | स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
विज्ञातं वो मया कार्यं तच्च लोकहितं महत् | प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
सुतप्तं वस्तपो देवा ममाराधनकाम्यया | भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः | यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः | तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः | ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
देवा देवर्षयश्चैव सर्वे भागानकल्पयन्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् | अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
येन यः कल्पितो भागः स तथा समुपागतः | प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः | कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ | स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः | सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः | ताभिराप्यायितबला लोकान्वै धारयिष्यथ
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः | मां ततो भावयिष्यध्वमेषा वो भावना मम
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह | एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः | वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः | प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः | अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
सनः सनत्सुजातश्च सनकः ससनन्दनः | सनत्कुमारः कपिलः सप्तमश्च सनातनः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः | स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एते योगविदो मुख्याः साङ्ख्यधर्मविदस्तथा | आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि | प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
मयानुशिष्टो भविता सर्वभूतवरप्रदः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः | ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि | प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा | परिनिर्मितकालानि आयूंषि च सुरोत्तमाः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
तत्र पादचतुर्थो वै धर्मस्य न भविष्यति
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति | द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते | एकपादस्थितो धर्मो यत्र तत्र भविष्यति
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
देवा ऊचुः|| एकपादस्थिते धर्मे यत्रक्वचनगामिनि | कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा | नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः | दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
तं देवो दर्शयामास कृत्वा हयशिरो महत् | साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् | लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः | स परिष्वज्य देवेन वचनं श्रावितस्तदा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यदा च सुरकार्यं ते अविषह्यं भविष्यति | प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत | तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एवमेष महाभागः पद्मनाभः सनातनः | यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् | प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम् | युगान्ते स सुप्तः सुसङ्क्षिप्य लोका; न्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने | अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
महाभूताधिपतये रुद्राणां पतये तथा | आदित्यपतये चैव वसूनां पतये तथा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
अश्विभ्यां पतये चैव मरुतां पतये तथा | वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
समुद्रवासिने नित्यं हरये मुञ्जकेशिने | शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
तपसां तेजसां चैव पतये यशसोऽपि च | वाचश्च पतये नित्यं सरितां पतये तथा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
कपर्दिने वराहाय एकशृङ्गाय धीमते | विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च | एष देवः सञ्चरति सर्वत्रगतिरव्ययः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा | कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः | गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता | सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
स चास्माकमुपाध्यायः सहास्माभिर्विशां पते | चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि | एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् | नमो भगवते कृत्वा समाहितमना नरः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
भवत्यरोगो द्युतिमान्बलरूपसमन्वितः | आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि | यो यं कामं कामयते स तमाप्नोति च ध्रुवम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":327,"vulgateChapter":333}
इदं महर्षेर्वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम् | समागमं चर्षिदिवौकसामिमं; निशम्य भक्ताः सुसुखं लभन्ते