Mokshadharma Parva · Chapter 130
Mokshadharma 130 (BORI 297, vulgate 303)
अध्यायः २९७
Shanti Parva Mokshadharma chapter 130 of 186.
25 verses
मृगयां विचरन्कश्चिद्विजने जनकात्मजः | वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् | पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् | पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः | निजगाद ततस्तस्मै श्रेयस्करमिदं वचः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि | भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् | धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि | मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना | तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
असता धर्मकामेन विशुद्धं कर्म दुष्करम् | सता तु धर्मकामेन सुकरं कर्म दुष्करम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः | ग्रामे वनसुखाचारो यथा वनचरस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः | निवृत्तौ वा प्रवृत्तौ वा सम्प्रधार्य गुणागुणान्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता | प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् | क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः | योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते | ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् | पात्रकर्मविशेषेण देशकालाववेक्ष्य च
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् | बहुयत्नेन महता पापनिर्हरणं तथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् | तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे | अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय | स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव | अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
तेजसा शक्यते प्राप्तुमुपायसहचारिणा | इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः | ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
तपस्विनां धर्मवतां विदुषां चोपसेवनात् | प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे
Meaning
{"speaker":"Bhishma","innerSection":"भृगुजनकसंवादः","subParva":"mokshadharma","boriChapter":297,"vulgateChapter":303}
स तु स्वभावसम्पन्नस्तच्छ्रुत्वा मुनिभाषितम् | विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह