Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 136

Mokshadharma 136 (BORI 303, vulgate 309)

अध्यायः ३०३

Shanti Parva Mokshadharma chapter 136 of 186.

21 verses

📖 Book View
  1. न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते | गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  2. गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा | प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  3. गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते | उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  4. अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः | न मत्तः परमस्तीति नित्यमेवाभिमन्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  5. अनेन कारणेनैतदव्यक्तं स्यादचेतनम् | नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  6. यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः | यदात्मानं न जानीते तदाव्यक्तमिहोच्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  7. कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते | कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  8. कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता | कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  9. गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् | कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  10. बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च | उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  11. मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः | अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  12. अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा | सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  13. अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञकः | यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  14. अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा | न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  15. अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् | न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  16. अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः | न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  17. पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् | न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  18. एतेषां सह संवासं विवासं चैव नित्यशः | यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  19. ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् | ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  20. साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् | एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":303,"vulgateChapter":309}

  21. ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् | अतः परं प्रवक्ष्यामि योगानामपि दर्शनम्